________________
षडशीतिनामा चतुर्थः कर्मप्रन्थः ।
"
haoयोगवत्सु मिथ्यात्वाविरतिकपायाभावेऽपि बध्यत इति योगप्रत्ययमिति । एवं सातलक्षणा प्रकृतिश्चतुः प्रत्ययिका । तथा मिथ्यात्वप्रत्ययिकाः षोडश प्रकृतयः । इह यासां कर्मस्तवे" नरयतिग ३ जाइ ४ थावरचउ ४हुंडा १ऽऽयव १ छिवट्ठ १ नपु १ मिच्छं १ | सोलंतो" ( गा० ४ ) इति गाथावयवेन नरकत्रिकादिपोडशप्रकृतीनां मिथ्यादृष्टावन्त उक्तस्ता मिथ्यात्व - प्रत्ययाः भवन्तीत्यर्थः । तद्भावे वध्यन्ते तदभावे तूत्तरत्र सास्वादनादिषु न बध्यन्त इत्यन्वयव्यतिरेकाभ्यां मिथ्यात्वमेवासां प्रधानं कारणम्, शेषप्रत्ययत्रयं तु गौणमिति । तथा मिथ्यात्वाविरतिप्रत्ययिकाः पञ्चत्रिंशत् प्रकृतयः, तथाहि - " सामणि तिरि ३ थीण ३ दुहग ३ तिगं || अण ४ मज्झागि ४ संघयणचउ ४ नि १ उज्जोय १ कुखगड़ १ त्थि १त्ति । ( कर्मस्व गा० ४ - ५ ) इति सूत्रावयवेन तिर्यत्रिकप्रभृतिपञ्चविंशतिप्रकृतीनां सास्वादने बन्धव्यवच्छेद उक्तः, तथा--' वइर १ नरतिय ३ बियकसाया ४ | उरलदुगंतो २" ( कर्मस्त० गा० ६ ) इति सूत्रावयवेन वज्र भनाराचादीनां दशानां प्रकृतीनां देशविरते बन्धव्यवच्छेद उक्तः, एवं च पञ्चविंशतेदेशानां च मीलने पञ्चत्रिंशत् प्रकृतयो मिथ्यात्वाविरतिप्रत्ययिका एताः शेषप्रत्ययद्वयं तु गौणम्, तद्भावेऽप्युत्तरत्र तद्रन्धाभावादिति भावः । भणितशेषा आहारकद्विकतीर्थ करनामवर्णाः सर्वा अपि प्रकृतयो योगवर्जत्रिप्रत्ययिका/भवन्ति, मिथ्यादृष्ट्यविरतेषु सकषायेषु च सर्वेषु सूक्ष्मसम्परायावसानेषु यथासम्भवं बध्यन्त इति मिथ्यात्वाविरतिकषायलक्ष गप्रत्ययत्रयनिबन्धना भवन्तीत्यर्थः । उपशान्तमोहादिषु केवलयोगवत्सु योगसद्भावेऽप्येतासां बन्धो नास्तीति योगप्रत्ययवर्जनम्, अन्वयव्यतिरेकसमधिगम्यत्वात् कार्यकारणभावस्येति हृदयम् । आहारकशरीराहारकाङ्गोपाङ्गलक्षणाहारकद्वि कतीर्थकर नाम्नोस्तु प्रत्ययः " " सम्मत्तगुणनिमित्तं, तित्थयरं संजमेण आहारं । " ( बृहच्छत० गा० ४५ ) इति वचनात् संयमः सम्यक्त्वं चाभिहित इतीह तद्वर्जन मिति ॥ ५३ ॥ उक्तं प्रासङ्गिकम् । इदानीमुत्तरबन्धभेदान् गुणस्थानकेषु चिन्तयन्नाह-
669
५२-५४ ]
पणपन्न पन्न तियछहिय चत्त गुणचत्त छच उदुगवीसा ।
सोलस दस नव नव सत्त हेउणो न उ अजोगिम्मि ॥ ५४ ॥
品
मिथ्यादृष्टौ पञ्चपञ्चाशद् बन्धहेतवः १ । सासादने पञ्चाशद् बन्धहेतवः २ । चत्तशब्दस्य प्रत्येकं सम्बन्धात् त्र्यधिकचत्वारिंशदित्यर्थः, बन्धहेतवो मित्रगुणस्थान के ३ । षडधिकचत्वारिंशद् बन्धहेतवोऽविरतिगुणस्थानके ४ | / एकोनचत्वारिंशद् बन्धहेतवो देशविरतगुणस्थानके ५ । विंशतिशब्दस्य प्रत्येकं सम्बन्धात् षडूविंशतिर्बन्धहेतवः प्रमत्तगुणस्थाने ६ । चतुर्विंशतिर्बन्धहेतasगुणस्थान ७ | द्वाविंशतिर्बन्ध हेतवोऽपूर्व करणे ८ । षोडश बन्धहेतवोऽनिवृत्तिबादरे
२१७
१ सम्यक्त्वगुणनिमित्तं तीर्थंकरं संयमेनाहारकम् ॥