________________
२१८
देवेन्द्रसूरिविरचितस्वोपज्ञटोकोपेतः
[ गाथा
प्रदर्शिता बन्धस्य मूलहेतवश्चत्वार उत्तरे सप्तपञ्चाशत्सङ्ख्याः । अधुना बन्धस्य मूलहेतून गुणस्थानकेषु चिन्तयन्नाह- "इगचउपणतिगुणे मु" इत्यादि । इहवं पदघटना-'एकस्मिन्' मिथ्यादृष्टिलक्षणे गुणस्थानके चत्वारः-मिथ्यात्वाविरतिकपाययोगलक्षणाः प्रत्ययाः-हेतवो यस्य स चतुःप्रत्ययो बन्धो भवति । अयमर्थः-मिथ्यात्वादिभिश्चतुर्भिः प्रत्ययेमिथ्यादृष्टिगुणस्थानकवर्ती जन्तुआनावरणादिकर्म बध्नाति । तथा 'चतुर्यु' गुणस्थानकेषु सास्वादन मिश्राविरतदेशविरतलक्षणेषु त्रयः--मिथ्यात्वविवर्जिता अविरतिकपाययोगलक्षणाः प्रत्यया यस्य स त्रिप्रत्ययो बन्धो भवतीति । अयमर्थः-सास्वादनादयश्चत्वारो मिथ्यात्वोदयाभावात् तद्वत्रिभिः प्रत्ययः कर्म बध्नन्ति । देशविरतगुणस्थानके यद्यपि देशतः स्थूलप्राणातिपातविषया विरतिरस्ति तथापि साऽल्पन्याद् नेह विवक्षिता, विरतिशब्देन इह सर्वविरतेरेव विवक्षितत्वादिति । तथा 'पञ्चसु' गुणस्थानकेपुःप्रमताप्रमत्तापूर्वकरणानिवृत्तिवादरमूक्ष्मसम्परायलक्षणेपु द्वौ प्रत्ययौ- कपाययोगाभिख्यो यस्य स द्विप्रत्ययो बन्धो भवति । इदमुक्तं भवति-मिथ्यात्वाविरतिप्रत्ययद्वयस्य एतेध्वभावात् शेपेण कपाययोगप्रत्यय द्वयेनाऽमी प्रमत्तादयः कर्म बध्नन्तीति । तथा 'त्रिपु' उपशान्तमोहक्षीणमोहसयोगिकेवलिलक्षणेषु गुणस्थानकेषु एक एव मिथ्यात्वाविरतिकपायाभावाद् योगलक्षणः प्रत्ययो यस्य स एकप्रत्ययो भवति । अयोगिकेवली भगवान सर्वथाऽप्यबन्धक इति ।।५२।। भाविता मूलबन्धहेतवो गुणस्थानकेषु । सम्प्रत्येतानेव मूलवन्धहेतून् विनेयवर्गानुग्रहार्थमुत्तरप्रकृतीराश्रित्य चिन्तयन्नाह
चउमिच्छमिच्छाविरहपञ्चाया सायसोलपणतीसा ।
जोग विणु तिपञ्चहयाऽऽहारगजिणवज सेसाओ ॥५३॥ प्रत्ययशब्दस्य प्रत्येकं सम्बन्धात् चतुःप्रत्ययिका सातलक्षणा प्रकृतिः । मिथ्यात्वप्रत्ययिकाः षोडश प्रकृतयः । मिथ्यात्वाविरतिप्रत्ययिकाः पञ्चत्रिंशत् प्रकृतयः । योगं विना 'त्रिप्रत्ययिकाः' मिथ्यात्वाविरतिकषायप्रत्ययिका आहारकद्विकजिनवर्जाः शेषाः प्रकृतय इति गाथाक्षरार्थः । भावार्थः पुनरयम्--सातलक्षणा प्रकृतिश्चत्वारः प्रत्यया मिथ्यात्वाविरतिकषाययोगा यस्याः सा चतुःप्रत्ययिका, “अतोऽनेकस्वराद्" (मि० ७-२-६) इतीकप्रत्ययः, मिथ्यात्वादिभिश्चतुर्भिरपि प्रत्ययैः सातं बध्यत इत्यर्थः । तथाहि-सातं मिथ्यादृष्टौ वध्यत इति मिथ्यात्वप्रत्ययम् , शेषा अप्यविरत्यादयस्त्रयः प्रत्ययाः सन्ति, केवलं मिथ्यात्वस्य एवेह प्राधान्येन विवक्षितत्वात ते तदन्तर्गतत्वेनैव विवक्षिताः, एवमुत्तरत्रापि । तदेव मिथ्यात्वाभावेऽप्यविरतिमत्सु सास्वादनादिषु बध्यत इत्यविरतिप्रन्ययम् । तदेव कपाययोगवत्सु प्रमत्तादिषु सूक्ष्मसम्परायावसानेषु बध्यत इति कषायप्रत्ययम् , योगप्रत्ययस्तु पूर्ववत् तदन्तर्गतो विवक्ष्यते । तदेवोपशान्तादिषु