________________
पशीतिनामा चतुर्थः कर्मप्रन्थः ।
' संजोयणाइयाणं, नरणूदओ संजयस्स पडिमिद्धो । सच्चमिह सोऽणुभागं, पहुच न पएसकम्मं तु भणियं च सुए जीवो, वेएइ न वाऽणुभागकम्मं तु । जं पुण पएसकम्मं, नियमा वेएइ तं सव्वं ॥ नादियं निजरए, नासंतमुदेइ जं तओऽवस्सं । सव्वं पएसम्म, वेएउं मुच्चए सवो ॥ किह दंसणाइघाओ, न होइ संजोयणाइवेयणओ | मंदाणुभावयाए, जहाऽणुभावम्मि वि कर्हिचि 11 निच्चमुन्नं पि जहा, सयलचउन्नाणिणो तदावरणं ।
न विघा मंदया, पएसक्रम्मं तहा नेयं || ( विशेषा०गा० १२६४ - ६८) “मिच्छ” त्ति मिथ्यात्वम्-अदेवदेवबुद्ध्यगुरुगुरुबुद्ध्यतच्च तत्त्वबुद्धिलक्षणम् । “मीस" त्ति इहानन्तराभिहितविधिना लब्धेनोपशमिकसम्यक्त्वेन ग्रन्थिसम्भवेन औषधविशेपकल्पेन मदनकोद्रस्थानीयं मिथ्यात्वमोहनीयं कर्म विशोधयित्वा त्रिधा करोति । तथाहि - शुद्धमर्थविशुद्धमविशुद्धं चेति । स्थापना । तत्र त्रयाणां पुञ्जानां मध्ये योऽसावर्धविशुद्धः पुञ्जः स मिश्र उच्यते, सम्यग्मिथ्यात्वमित्यर्थः । एतदुदयात् किल प्राणी जिनप्रणीतं तवं न सम्यक् श्रद्दधाति नापि निन्दति । उक्तं च बृहच्छतक बृहच्चूर्णी
१३ ]
11
१६५
'जहा नालिकेरदीव वा सिस्स अइछुहियस्स वि पुरिसस्स इत्थ ओयणाइए अरोगहा वि ढोइए तस्स आहारस्स उवरिं न रुई न य निंदा, जेण कारणेणं सो ओयणाइओ आहारो न कयाइ दिडो नावि सुओ, एवं सम्मामिच्छद्दिस्सि वि जीवाइपयत्थाण उवरिं न रुई न य निंदा इत्यादि ।
तथा "सासाण" ति सासादनं तत्र आयम् - औपशमिकसम्यक्त्वलक्षणं सादयति- अपनयति आसादनम् - अनन्तानुबन्धिकषाय वेदनम्, अत्र पृषोदरादित्वाद् यशब्दलोपः, "रम्यादिभ्यः "
१ संयोजनादिकानां ननूदयः संयतस्य प्रतिषिद्धः । सत्यमिह सोऽनुमागं प्रतीत्य न प्रदेशकर्म तु ॥ मणितं च श्रुते जीवो वेदयति न वा अनुभागकर्म तु । यत पुनः प्रदेशकर्म नियमाद् वेदयति तत् सर्वम् ॥ नानुदितं निर्जीर्यते नासदुदेति यततोऽवश्यम् । सर्वं प्रदेशकर्म वेदयित्वा मुच्यते सर्वः ॥ कथं दर्शनादिघातो न भवति संयोजनादिवेदनतः । मन्दानुभावतया यथा अनुभावेऽपि कस्मिंश्चिद् || नित्यमुदीर्णमपि यथा सकलचतुर्ज्ञानिनस्तदावरणम् । नापि घातयति मन्दत्वात् प्रदेशकर्म तथा ज्ञेयम् ॥। २ यथा नालिकेरद्वीपवासिनः अतिक्षवितस्यापि पुरुषस्यात्रौदनादिके अनेकवाऽपि ढौकिते तस्याहारस्योपरि न रुचि च निन्दा, येन कारणेन स भोदनादिक आहारो न कदाचिद दृष्टो नापि श्रुतः, एवं सम्यग्मियादृशोऽपि जीवादिपदार्थानामुपरि न रुचिर्न च निन्दा ॥