________________
१४४
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
'भावसुयं भासासोयलद्विणो जुञ्जए न इथरस्स । भासाभिमुस्स सुयं सोऊण व जं हविजाहि ॥ (विशेषा० गा० १०२ ) इति ।
[ गाथा
"
उच्यते - इह तावदे केन्द्रियाणामाहारादिसंज्ञा विद्यन्ते तथा सूत्रेऽभिधानात् संज्ञा चाभिलाप उच्यते । यदवादि परोपकारभूरिभिः श्रीहरिभद्रसूरिभिर्मूलावश्यकटीकायाम्
आहारसंज्ञा आहाराभिलाषः शुद्वेदनीयोदयप्रभवः खल्वात्मपरिणामविशेषः (पत्र ५८० ) इति । अभिलाषश्च ममेयंरूपं वस्तु पुष्टिकारि तद् यदीदमवाप्यते ततः समीचीनं भवतीत्येवं शब्दाथेल्लेखानुविद्धः स्वपुष्टिनिमित्तभूतप्रतिनियतवस्तु प्राप्त्यध्यवसायरूपः स च श्रुतमेव, शब्दार्थालोचनानुसारित्वात् श्रुतस्यैतल्लक्षणत्वान् ।
,
यदवादिषुर्दखितप्रवादिकुवादाः श्रीजिनभद्रगणिक्षमाश्रमणपादाः-
'इंदियमणोनिमित्तं जं विभाणं सुयानुसारेणं ।
नियत्युतिमत्थं तं भावसुयं मई सेसं || ( विशेषा० गा० १००)
" सुवासारेणं" ति शब्दार्थालोचनानुसारेण । केवलमे केन्द्रियाणामव्यक्त एव कथनाप्यनिर्वचनीयः शब्दार्थल्लेखो द्रष्टव्यः, अन्यथाऽऽहारादिसंज्ञाऽनुपपत्तेः । यदप्युक्तम्- भापालब्धिश्रोत्रेन्द्रियलब्धिविकलत्वात् एकेन्द्रियाणां श्रुतमनुपपन्नमिति, तदप्यसमीक्षिताभिधानम्, तथाहिबकुलादेः स्पर्शनेन्द्रियातिरिक्तद्रव्येन्द्रियलब्धिविकलत्वेऽपि किमपि सूक्ष्मं भावेन्द्रि यपञ्चकविज्ञानमभ्युपगम्यते " पंचिदिओ व्व बउलो नरु व्व सव्वविस ओवलंभाओ" इत्यादिवचनप्रामाण्यात् । तथा भाषाश्रोत्रेन्द्रियलब्धिविकलत्वेऽपि तेषां ममं श्रुतमपि भवि ष्यति, अन्यथाऽऽहारादिसंज्ञाऽनुपपत्तेः ।
यदाह प्रशस्य भाष्यस्यकाश्यपीकल्पः श्रीजिनभद्रगणिक्षमाश्रमणः-जह सुहमं भाविदियजाणं दबिंदिया ण विरहे वि ।
दव्याभाव विभावसुयं पत्थिवाई || (विशेषा० गा० १०३ ) इति । संज्ञास अपर्याप्त पर्याप्तः तस्मिन् संध्यपर्याप्ते मनः पर्यवज्ञान चक्षुर्दर्शन केवलज्ञान
१ भावश्रुतं भाषाश्रोत्रलब्धिकस्य युज्यते नेतरस्य । भाषाभिमुखस्य श्रुतं श्रुत्वा वा यद् भवेत् । २ इन्द्रियमनोनिमित्तं यद् विज्ञानं श्रुतानुसारेण । निजकाशक्तिसमर्थ तद् मावश्रुत मतिः शेषम् ॥ ३ पञ्चेन्द्रिय इव बकुलो नर इव सर्वविपयोपलम्भात ॥ ४ यथा सूक्ष्मं भावेन्द्रियज्ञानं द्रव्येन्द्रियाणां विरहेऽपि द्रव्यश्रुताभावेऽपि मात्रभूतं पृथिव्यादीनाम् ||५ व्यावहे वि । तह दयाभावे भाव इति विशेषावश्यकभाष्ये ॥