________________
१४३
षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
औदारिककाययोगवैक्रियकाययोगवैक्रियमिश्रकाययोगलक्षणास्त्रयो योगा भवन्ति । तत्र औदारिककाययोगः पृथिव्यम्बुतेजो (वायु) वनस्पतीनाम्, वैक्रियद्विकं तु 'वायुकायस्येति ।।
५-६ ]
प्ररूपिता जीवस्थानेषु योगाः । साम्प्रतमुपयोगाः प्ररूपणात्रसरप्राप्ताः, ते च द्वादश । तद्यथा - मतिज्ञान १ श्रुतज्ञान २ अवधिज्ञान ३ मनः पर्यवज्ञान ४ केवलज्ञान ५ लक्षणानि पञ्च ज्ञानानि, मत्यज्ञान १ श्रुताज्ञान २ विभङ्ग ३ रूपाणि त्रीण्यज्ञानानि, चक्षुर्दर्शना १ऽचक्षुर्दर्शना २ऽवधिदर्शन ३ केवलदर्शन ४रूपाणि चत्वारि दर्शनानि इत्येतानुपयोगान् जीवस्थानकेषु दिदर्शयिषुराह - "पञ्जसन्निसु बार उवओग" त्ति पजशब्देन पर्याप्त उच्यते, ततः पर्याप्ताश्र ते संज्ञिनच पर्याप्तमंज्ञिनः, तेषु पर्याप्तसंज्ञिषु 'द्वादश' द्वादशसङ्ख्या उपयोगा भवन्ति । ते चक्रमेणैव न तु युगपत्, उपयोगानां तथाजीवस्वभावतो यौगपद्यासम्भवात् । उक्तं च" " समए दो गुवओगा" इति । श्रीभद्रबाहुस्वामिपादा अप्याहु:
नाम सम्मिय, एत्तो एगयरयम्मि उवउत्ता | सव्वस्स केवलिस्स, जुगत्रं दो नत्थि उवओगा ||
( आ. नि. गा. ६७९) इति ॥ ५ ॥
पजचउरिंदिअसन्निनुः दुदंस दुअनाण दससु चखु विणा । सन्निपज्जे मणनाणचक केवल दुगविणा
॥६॥
चतुरिन्द्रियाच असंज्ञिनश्च चतुरिन्द्रियासंज्ञिनः, पर्याप्ताश्च ते चतुरिन्द्रियासंज्ञिनश्च तेषु पर्याप्त चतुरिन्द्रियासंज्ञिषु चत्वार उपयोगा भवन्ति । के ? इत्याह - "दुदंस दुअनाण" चि दर्श:- दर्शनम्, द्वयोर्दर्शयोः समाहारो द्विदर्श-चक्षुर्दर्शनाऽचक्षुर्दर्शनलक्षणम् द्वयोरज्ञानयोः समाहारो द्वयज्ञानं-मत्यज्ञानश्रुताज्ञानरूपम् । अयमर्थः - पर्याप्तचतुरिन्द्रियेषु पर्याप्तासंज्ञिपञ्चेन्द्रियेषु च मत्यज्ञानश्रुताज्ञानच सुर्दर्शनाऽचक्षुर्दर्शनलक्षणाश्चत्वार उपयोगा भवन्ति । दशसु जीवस्थानकेषु पर्याप्ताऽपर्याप्तमवादर केन्द्रिय ४ द्वीन्द्रिय ६ त्रीन्द्रियाऽपर्याप्त चतुरिन्द्रिया ९ ऽसंज्ञिपञ्चेन्द्रिय १० लक्षणेषु पूर्वक्ताश्चत्वार उपयोगाश्चचुर्दर्शनं विना भवन्ति । अयमर्थः- पूर्वोक्तदशजीवस्थानकेषु चक्षुर्दर्शनवर्जा अचक्षुर्दर्शनमत्यज्ञानश्रुताज्ञानलक्षणास्त्रय उपयोगा भवन्ति ।
•
ननु स्पर्शनेन्द्रियावरणक्षयोपशमसम्भवाद् भवतु मतिरेकेन्द्रियाणाम्, यत्तु श्रुतं तत् कथं जाघटीति ? भाषालब्धिश्रोत्रेन्द्रियलब्धिमतो हि तद् उपपद्यते नान्यस्य । तदुक्तम्-
१ समये द्वौ नोपयोगी २ ज्ञाने दर्शने चानयोरेकतरस्मिन्नुपयुक्ताः । सर्वस्य केवलिनो युगपद् द्वौ न स्त उपयोगौ ॥