________________
३]
षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
'खीणम्मि मोहणिज्जे, खीणकसाओ सजोग जोगि ति ( गत्ति ) । होड़ पत्ता य तओ, अपउत्ता होइ हु अजोगी || अविरय सासणमिच्छा, परभविया न उण सेसगुणठाणा । मिच्छस्स तिनि भंगा, छावलियं होई सासाणं ॥
तित्तीसयर चउत्थं, पुव्वाणं कोडि ऊण तेरसमं । लहु पंचक्खर चरिमं, अंतमुहू सगुणठाणा ||
१३६
ततो बादरांश्च-बादरैकेन्द्रियाः पृथिव्यंम्बुबनस्पतिलक्षणाः असंज्ञी' च- विशिष्टस्मरणादिरूपमनोविज्ञानविकलः विकलाश्व - विकलेन्द्रियां द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाः बादरासंज्ञिविकलं तस्मिन् बादरासंज्ञिविकले । किंविशिष्टे ? ' अपञ्जि" ति अपर्याप्ते, कोऽर्थः अपर्याप्तबादरै केन्द्रियेषु पृथिव्यम्बुवनस्पतिषु तथा अपर्याप्तेऽसंज्ञिनि, तथा विकलेषु द्वीन्द्रि यत्रीन्द्रियचतुरिन्द्रियेष्वपर्याप्तेषु । किम् ? इत्याह - "पढमबिय" त्ति इह " सव्वगुणा" इति पदाद् गुणशब्दस्याकर्षणम्, ततः प्रथमं - मिध्यादृष्टिगुणस्थानं द्वितीयं - सासादनगुणस्थानं भवति । अथ तेजोवायुवर्जनं किमर्थम् ? इति चेंदू, उच्यते - तेजोवायूनां मध्ये सम्यक्त्वलेशवतामपि उत्पादाभावात् सम्यक्त्वं चासादयंत सासादनभांवाभ्युपगमात् ।
नन्वे केन्द्रियाणामागमे सासादनभावो नेष्यते, " 'उभयाभावो पुढवाइएस सम्मत्तल द्वीए " इति परममुनिप्रणीतवचनप्रामाण्यात्, अत एवागमे एकेन्द्रिया अंज्ञानिन एवोक्ताः, द्वीन्द्रि यादयश्च केचिदपर्याप्तावस्थायां सासादनभावाभ्युपगमाद् ज्ञानिन उक्ताः केचिच्च तदभावाद् अज्ञानिनः, यदि पुनरेकेन्द्रियाणामपि सासादनभावः स्यात् तर्हि तेऽपि द्वीन्द्रियादिवद् उभterstयुच्येरन्, न चोच्यन्ते, यदुक्तम्
"एगेंदिया णं भंते! किं नाणी अन्नाणी ? गोयमा ! नो नाणी नियमा अन्नाणी । तथाबेदिया णं भंते! किं नाणी अन्नाणी ? गोयमा ! नाणी वि अन्नाणी वि । इत्यादि । तत् कथमिहापर्याप्तादरै केन्द्रियेषु पृथिव्यम्बुवं नस्पतिलक्षणेषु सासादनगुणस्थानकभाव उक्तः १ सत्यमेतत् किन्तु मा त्वरिष्ठाः सर्वमेतदग्रे प्रतिविधा
|
"
"
१ क्षीणे मोहनीये क्षीणकषायः सयोगः योगीति । भवति प्रयोक्ता च संकः अप्रयोक्ता भवत्येवायोगी || अतिमास्वादनमिध्यात्वानि परभविकानि न पुनः शेषगुणस्थानानि । मिध्यात्वस्य त्र्य मङ्गाः safe सास्वादनम् ॥ त्रयस्त्रिंशदतराणि चतुर्थं पूर्वाणां कोटिरूना त्रयोदशम् । लघुपञ्चाक्षरं चरनमन्तर्मुहूर्त्तशेषगुणस्थानानि ॥। २ उमयाभावः पृथिव्यादिकेषु सम्यक्त्वलब्धेः ॥ ३ एकेन्द्रियाः भदन्त ! किं ज्ञानिनोऽज्ञानिनः ? गौतम ! न ज्ञानिनो नियमादज्ञानिनः ॥ द्वीन्द्रियाः मदन्त ! किं ज्ञानिनो-ज्ञानिनः ? गौतम ! ज्ञानिनोप्यज्ञांनिनोऽपि ॥