________________
१३४
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[ गाथा 'दक्खो संवरसीलो, रिजुभावो दाणसीलगुणजुत्तो । धम्मम्मि होइ बुद्धी, अरूसणो तेउल्लेसाए ।। सत्तणुकंपो य थिरो, दाणं खलु देइ सव्वजीवाणं । अइकुसलबुद्धीमंतो, घिइमंतो पम्हलेसाए ।। धम्मम्मि होइ बुद्धि, पावं वज्जेइ सव्वकज्जेसु ॥
आरंभेसु न राइ, अपक्खवाई य सुकाए ॥ ॥६।। ततो जीवस्थानानि च मार्गणास्थानानि च गुणस्थानानि च उपयोगाश्च योगाश्च लेश्याश्चेति द्वन्द्वे द्वितीया शम् । “बंध" ति मिथ्यात्वादिभिर्बन्धहेतुभिरञ्जनचूर्णपूर्णसमुद्कवद् निरन्तरं पुद्गलनिचिते लोके कर्म योग्यवर्गणापुद्गलरात्मनः क्षीरनीरवद् वलययःपिण्डवद्वा अन्योन्यानुगमाभेदात्मकः सम्बन्धो बन्धः १ । उपलक्षणत्वाद् उदयोदीरणासत्तानां परिग्रहः । तत्र तेषामेव कर्मपुद्गलानां यथास्वस्थितिबद्धानामयवर्तनादिकरणकृते स्वाभाविके वा स्थित्यपचये सत्युदयसमयप्राप्तानां विपाकवेदनमुदयः २ । तेषामेव कर्मपुद्गलानामकालप्राप्तानां जीवसामर्थ्य - विशेषाद् उदयावलिकायां प्रवेशनमुदीरणा ३) तेषामेव कर्मपुद्गलाना बन्धसक्रमाभ्यां लब्धात्मलाभानां निर्जरणसङ्क्रमकृतस्वरूपप्रच्युत्यभावे सति सद्भावः सत्ता ४ । यद्वा बन्ध इति पदैकदेशेऽपि 'भामा'--सत्यभामा' इति न्यायेन पदप्रयोगदर्शनाद् बन्धहेतवो मिथ्यान्याऽविरतिकषाययोगरूपा वक्ष्यमाणा गृह्यन्ते ७ : "अप्पबहू" ति भावप्रधानत्वानिर्देशस्य अल्पबहुत्वं गत्यादिरूपमार्गणास्थानादीनां परस्परं स्तोकभूयस्त्व ८ । 'भाव'' त्ति जीवाजीवानां तेन तेन रूपेण भवनानि-परिणमनानि भावा औपशमिकादयः । । ततो बन्धश्च अल्पबहुत्वं च भावाश्चेति द्वन्द्वे द्वितीयाबहुवचनं शम् । सूत्रे च "अपवह" इत्यत्र दीर्घत्वं "दीर्घहस्वी मिथो वृत्तौ" (सि० ८-१-४ ) इति प्राकृतसूत्रेण । “संखिजाइ" त्ति सङ्ख्यायते-चतुष्पल्यादिप्ररूपणया परिमीयत इति सङ्खये यम्, आदिशब्दादसङ्खये यानन्तकपरिग्रहः १० । तत एवं जीवस्थानादिकम नन्तकपर्यवसानं द्वारकलापमत्र वक्ष्य इत्यनेनाभिवेयमाह । कथं वक्ष्ये ? इत्याह"किमवि" ति किमपि किश्चित्-स्वल्पं न विस्तरवत् , दुःषमानुभावेनापचीयमानमेधायुलादिगुणानामैदंयुगीनजनानां विस्तराभिधाने सत्युपकारासम्भवात् , तदुपकारार्थ चैप शास्त्रारम्भप्रयासः । एतेन सझिामचिमचानाश्रित्य प्रयोजनमाचष्टे । सम्बन्धस्त्वर्थापत्तिगम्यः, स चोपा. योपेयलक्षणः साध्यसाधनलक्षणो गुरुपर्वक्रमलक्षणो वा स्वयमभ्ययः ।
१ दक्षः संवरशील ऋजुमावो दानशीलगुणयुक्तः । धर्म भवति बुद्धिः अरोषणः तेजोलेश्यायाम ॥ सत्त्वानुकम्पकश्च स्थिरः दानं सलु ददानि सर्वजीवेभ्यः । अतिकुशलबुद्धिमान् धृतिमान पद्मलेश्यायाम् ।। धर्म भवति बुद्धिः पापं वर्जयति सर्वकार्येषु । आरम्भेषु न रजति अपक्षपाती च शुक्लायाम् ।।