________________
१३२
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[ गाथा मभिहितानि इहैव वा किश्चिद्वक्ष्यमाणानि मिथ्यादृष्टिप्रभृतीनि चतुर्दश ३ । “उवओग" त्ति उपयोजनमुपयोगः-बोधरूपो जीवव्यापारः, भावे घन्, यद्वा उपयुज्यते-वस्तुपरिच्छेदं प्रति व्यापार्यत इत्युपयोगः, कर्मणि घञ् , यदि वा उपयुज्यते वस्तुपरिच्छेदं प्रति जीवोऽनेनेत्युपयोगः, "पुनाम्नि घः" (सि० ५-३-१३० ) इति करणे घप्रत्ययः, सर्वत्र जीवस्वतत्त्वभतोऽवबोध एवोपयोगो मन्तव्यः ४। “योग" ति योजनं योगः- जीवस्य वीर्य परिस्पन्द इति यावत्, यदि वा युज्यते-धावनवल्गनादिक्रियासु(व्यापार्यत इति योगः, कर्मणि घञ् , यद्वा युज्यते- सम्बध्यते धावनवल्गनादिक्रियासु )जीवोऽनेनेति "पुनाम्नि" (सि० ५-३-१३०) इति करणे घप्रत्ययः, स च मनोवाकायलक्षणसहकारिकारणभेदात् त्रिविधो वक्ष्यमाणस्वरूपः ५। "लेसाउ' ति लिश्यते-श्लिष्यते कर्मणा सहात्माऽनयेति लेश्या, कृष्णादिद्रव्यसाचिव्यादात्मनः शुभाशुभपरिणामविशेषः । यदुक्तम्
कृष्णादिद्रव्यसाचिव्यात् , परिणामो य आत्मनः ।
स्फटिकस्येव तवायं, लेश्याशब्दः प्रवर्तते ॥ इति ।
सा च पोढा-कृष्णलेश्या नीललेश्या कापोतलेश्या तेजोलेश्या पद्मलेश्या शुक्ललेश्या। आसां च स्वरूपं जम्बूफलखादकपटपुरुषीदृष्टान्तेन ग्रामघातनप्रचलितचौरपट्कदृष्टान्तेन वा एवमवसेयम् -
'जह जंबुपायवेगो, सुपक्कफलभरियनमियसाहग्गो । दिट्ठो छहिँ पुरिसेहि, ते विंति जंबू भक्खेमो ॥ किह पुण ते ? बितेगो, आरुहणे हुज जीयसंदेहो । तो छिदिऊण मूलाउ पाडिउं ताई भक्खेमो । बीयाऽऽह इद्दहेणं, किं छिन्नेण तरुणा उ अम्हं ? ति । साहा महल्ल छिंदह, तइओ बेई पसाहा उ ॥ गुच्छे चउत्थओ पुण, पंचमओ बेइ गिण्हह फलाई । छट्ठो उ बेइ पडिया, एए चिय खायहा चित्तु ॥ दिळंतस्सोवणओ, जो बेइ तरु तु छिंद मूलाओ ।
सो वट्टइ किण्हाए, साह महल्लाउ नीलाए ॥ १ यथा जम्बूपादप एकः सुपरफलभरितनतशाखामः । दृष्टः षभिः पुरुषैस्ते व वते जम्बूः मक्षयामः ।। कथं पुनस्ताः [मक्षयामः] ? ब्रवीत्येकः आरोहणे भवेद् जीवसन्देहः । ततश्छित्त्वा मूलतः पातयित्वा ताः भक्षयामः ।। द्वितीय आह एतावता किं छिन्ने न तरुणा तु अस्माकम् ? इति । शाखा महतीश्चिन्त तृतीयो ब्रवीति प्रशास्त्रास्तु ।। गुच्छांश्चतुर्थकः पुनः पञ्चमो ब्रवीति गृहीत फलानि । षष्ठम्तु ब्रवीति पतिताः एताः एव.खादत गृहीत्वा ।। दृष्टान्तस्योपनयो यो ब्रवीति तरतु छिन्त मूलतः । स वर्तते कृष्णायां शाखा महतीर्नीलायाम् ॥