________________
प्रोत्तुङ्गे जिनचैत्येऽस्मिन् , भूमिगेहेऽतिनिम्नगे । बिम्ब श्रीपार्श्वनाथस्य, चमत्कारकरं नृणाम् ॥५७२॥ तत्र हि चान्तरं दृष्ट, भूमिप्रतिमयो शम् । मया च साधुन्देन, विस्मयानन्दसञ्जुषा ॥५७३॥ निनिमेषेण नेत्रेण, प्रसन्नमनसा मया । तथा च सर्वनिग्रन्थः, कृतं बिम्बस्य दर्शनम् ॥५७४॥ दर्शनेन जिनेन्द्रस्य, चमत्कारचमत्कृताः । श्रमहीना वयं जाताः, सर्वेऽपि पावदर्शनात् ॥५७५॥ श्रमजुषां च विश्रामो: बुभुक्षितस्य भोजनम । चिन्तामणिर्दरिद्राणां, चार्थिनां च सुरद्रुमः ॥५७६॥ सौभाग्यं भाग्यहीनानां, तृषितानां सरोवरम् । भक्तिमतामभीष्टं हि, बिम्बं पा जिनेशितुः ॥५७७॥
युग्मम् समीक्ष्य तोयदं व्योम्नि, केकारवैश्च केकिनः । नृत्यन्ति मोदसम्भारे-रिष्टं प्राप्यातिवेगतः ॥५७८॥ तद्वद् बिम्ब समालोक्य, चिरकालेन चेप्सितम् । गम्भीरभावितैः स्तोत्र-रह स्तोतुं प्रचक्रमे ॥५७९।।
युग्मम् नमः श्रीपार्श्वनाथाय, चान्तरिक्षाय योगिने । इन्द्रे ताघ्रिामाय, दायिने शिवसमनः ॥५८०॥