________________
६२ :
विहृत्याहं ततो द्रङ्गात् , तीर्थस्य भक्तिरक्तितः । मध्ये लोणारसुग्रामे, प्राविशं स्वागतेन वै ॥५६२॥ कियदिनान्युषित्वाऽत्र, परिश्रान्ततया मया । संश्राव्य जिनवाणी च, बोधिता जैनधर्मिणः ॥५६॥ विहृत्य नगरादस्माद्, शिरपुरोपसीमके । आगतो भक्तिरङ्गेण, रङ्गितो दर्शनेप्सया ॥५६॥ श्रीमालेग्रामतोऽत्यन्तं, दविष्ठं तीर्थमद्भुतम् । बहुगव्यूतिमात्रायुक्, प्रायोऽनुमानतः किल ॥५६५।। जराजर्जरिताङ्गोऽहं, ग्लानो रुग्णस्तथाऽपि च । सुखदेन विहारेणा-तिष्ठं तीर्थस्य पार्श्वगः ॥५६६॥ तीर्थकार्यरताश्चैव,-माकर्ण्य च चमत्कृताः । अतीवाचिरकालेन, ते विहृत्यागताः कथम् ? ॥५६७|| सद्वाद्यैर्जल्लरीभेरी,-नादैमङ्गलकारिभिः । कृतं सुस्वागतं तत्र, मदीयं तीर्थरक्षकैः ॥५६८॥ तीर्थे श्रीपार्श्वनाथस्य, चान्तरिक्षे यशस्करे । विकटमार्गमुल्लाध्य, विश्रुते वयमागताः ॥५६९॥ अधिष्ठायकदेवस्य, कृपाकटाक्षलेशतः । कण्टककर्कराकीर्णो-ऽपि पन्थाः सुगमोऽजनि ॥५७०॥ मदीयागमनं श्रुखा, तीर्थरक्षणकारकाः । आगता मोदसम्पृक्ताः, प्रवेशसमये मम