________________
:५७:
तस्याः पित्रा सुभावेन, व्यधायि सन्जेमनं । धनव्ययः कृतस्तत्र, दीक्षाक्षणानुमोदिना ॥५१२॥ प्रतिष्ठाअनसत्कृत्यं, निर्विघ्नं पूर्णतामगात् । शान्तितुष्टिमहापुष्टि,-कीर्तिसमृद्धिकारि तत् ॥५१३॥ प्राघूर्णका अनेके च, तुष्टा धसिवे भृशं । सन कृतसद्भक्त्या, हर्षान्विता ययुगृहम् ॥५१४॥ तीर्थान्तरिक्षसंस्थाना,-दागतास्तत्रियोगिनः । मुख्याधिकारिणः सर्वे, सम्मिल्यात्र सभासदः ॥५१५॥ उत्सवं प्रेक्ष्य सन्तुष्टा, मम बुद्धया विशेषतः । .. मां च निवेदयामासु,-हृदयस्थां स्ववेदनाम् ॥५१६॥ आचार्याः क्वचिदायान्ति, विषये विषमे च नः । ... भवतामागमादत्र, धन्या जाता वयं ततः ॥५१७॥ श्रोतव्यमस्मदुक्तं यद् , भवद्भिरेकचित्ततः । विज्ञपयन्ति मां भव्या, म्लानान्तःकरणाश्च ते ॥५१८॥ अन्तरिक्षस्य तीर्थस्य, प्राचीनस्यातिदुःखदः । ., . वृत्तान्तो वर्णितस्तैश्च, विहितः परिपथभिः ॥५१९॥ आशाम्बरैः प्रपञ्चेन, तीर्थे विघ्नः कृतो भृशम् । आशातना कृता काचिद्, बिम्बस्य तैविरोधिभिः ॥६२०॥ श्वेताम्बरीयतीर्थ यत् , प्राचीनं च प्रमाणितम् । शास्त्रप्रमाणबाहुल्यात् , प्राक्तनलेखसंहतेः ॥२१॥