________________
शासनधर्मवृद्धयथै, प्रार्थना स्वीकृता मया । लग्नं शीघ्र सुनिर्णीतं. मया च धर्मवाहिना ॥४९४॥ तत्र नवीनमूर्तीनां, चाअनस्य क्रिया खलु । प्रतिष्ठा जिनचैत्येषु, कर्तव्या शुभशान्तिदा ॥४९५॥ तत्रान नशलाकायाः, प्रतिष्ठायाः कृते वरः । दशाहिकावधिः श्रेष्ठः, सूत्सवः परिमण्डितः ॥४९६॥ आमन्त्रिताः क्षणे तस्मि,-नागताः बहवो जनाः । दृष्ट्वा प्राणप्रतिष्ठां च, प्रसेदुर्भाववृद्धितः ॥४९७॥ व्यधुरागन्तुवात्सल्यं, सङ्ग-स्था धर्मरागिणः । जेमनर्विविधस्तत्र, धर्मिसङ्गो हि दुर्लभः ॥४९८॥ छाणीतिग्रामवास्तव्या, आगता विधिकारकाः । विधिविधाननिष्णाताः, श्रावका व्रतधारिणः ॥४९९॥ चक्रिरे मण्डपं दीर्घ, पताका-परिमण्डितम् ।। प्रतिष्ठायाः क्रियायै च, प्रतिष्ठारङ्गपूरिताः ॥५००॥ दर्शनज्ञानचारित्र,-सूचकैः शुद्धवस्तुभिः । उद्यापनं वृषोद्यान, मण्डपे मण्डितं महत् ॥५०१॥
युग्मम् ॥ महोत्सवमहाशोभा, निरीक्ष्य प्रेक्षकाः समे । जहषुननृतुहर्षात् , जैनधर्मानुरागिणः ॥५०२॥