________________
: ५४.: धनाढयैर्धर्मचित्तत्वात्, प्रकारैविविधनवैः । आबालवृद्धसुश्राद्ध-स्तपोविहितमद्भुतम् ॥४८५॥ मत्कृतप्रेरणां प्राप्य, पर्युषणाख्यपर्वनि । तपउद्यापने सर्वैः, सम्भूय कृत उत्सव: ॥४८६॥
युग्मम् ॥ प्रासादेजिनभकत्यर्थ, शान्तिस्नात्रादिसत्क्रिया । अष्टवासरपर्यन्ता, पूजादिक्रमतोऽजनि ॥४८७॥ अभूदभूतपूर्वोऽय,-मुत्सवो धर्ममण्डनः । जेमनमपि सआतं, त्रिः साधर्मिकसानृणाम् ॥४८॥ प्रोत्तुङ्गजिनचैत्येषु, विधिभिभक्तिमज्जनः । नानाविधाङ्गशोभा च, कृता सुमूल्यवस्तुभिः ॥४८९॥ दर्शकानां सुसद्भाव,-वृद्धये तीर्थ जिनेशितुः । क्रियते भावुकर्मव्या, जिनाङ्गरचना नवा ॥४९०॥ सम्मिल्य जैनसङ्घन, चैकदा मम सन्निधौ । प्रार्थना विहिता शस्या, प्रतिष्ठाय जिनेशितुः ॥४९१॥ कियतां जिनदेवानां, नृत्नानां विधिनाऽधुना । प्रकारयितुमिच्छामः, प्रतिष्ठां शास्त्रसम्मताम् ॥४९२॥ इति वचनमाधुर्याद्, विज्ञप्तं श्रावकैः शुभम् । ममाग्रे धर्नाकार्याय, नम्रातिनम्रभावत: ॥४९३॥
युग्मम् ॥