________________
मयाऽत्रैव चतुर्मासी, मानिता धर्मयुद्धये । जहषुः श्रावकाः सर्वे, चक्रुर्जयजयारवम् ॥४७६॥ पाप्येष्टं घनं श्याम, नृत्यन्ति किं न केकिनः । वसन्ति च भिषक्श्रेष्ठाः, आंग्ल विद्याविशारदाः ॥४७७॥
युग्मम् ॥ श्रावका धर्मसंरक्ताः, गुरुभक्ता धृतव्रताः । साधुभिश्चिन्तितं ह्येवं, आनुकूल्यं ततोऽधिकम् ॥४७८॥ मम स्वास्थ्यकृते ह्येते, सज्जा नित्यं पुनः पुनः । मम वपुषि वर्तन्ते, रोगास्तु रिपुवद् घनाः ॥४७९॥ पूर्व कृषा निदान तै-श्चिकित्साऽऽङ्ग्लचिकित्सकैः । मदीयरोगशान्त्यर्थं, ओषधैर्विविधैः कृताः ॥४८०॥ स्वास्थ्यं महत्तरं लब्धं, कृतैर्यत्नैः शुभाशयात् । प्रत्यहं वाचना तत्र, दीयतेऽथ मया ततः ॥४८१॥ अत्र भगवतीसूत्रं, जनाः सर्वानुयोगभृत् । शृण्वन्तीदं सुधां मखा, गौतमपश्नभासुरम् ॥४८२॥ सादरं बहुमानेन, श्रुततवार्थचिंतकाः । प्रत्यहं सफलश्राद्धाः, सम्भूयाधिकसंख्यया ॥४८३॥
युग्मम् ॥ व्याख्याक्षणे समायाता, ज्ञातुं तवं जिनेशितुः । धर्मप्रभावनां चक्रु,-विदधतो धनव्ययम् ॥४४॥