________________
खानदेशेऽतिसद्रम्यं, नंदुरबारसंज्ञकम् । वर्तते नगरं श्रेष्ठं, जैनर्मिन नाकुलम् ॥४१९॥ श्रावकाः श्रद्धया भव्याः, प्रशस्ताशयपूरिताः । वर्तन्ते बहुसङ्ख्याकाः, श्रावकव्रतपालकाः ॥४२०॥ विद्यते जिनदेवानां, चैत्यं विमानसन्निभम् । अस्मिन् ग्रामे सुदिव्यं हि, भक्तप्राहलादवर्धकम् ॥४२१॥ कठोरामिधसद्ग्रामे, तत्रत्याः श्रावका वराः । श्रेष्ठिनश्च समाजग्मुः, विज्ञप्त्यै मे प्रियंवदाः ॥४२२॥ चतुर्मासीनिवासाय, चक्रुस्ते प्रार्थनां बराम् । कृपयावश्यमागम्यं, भवद्भिर्गुरुभिर्वरः ॥४२॥ विकटे दुश्चरे मार्ग, स्वल्पा आयान्ति साधवः । दूरदेशान्तरे तस्मिन , दुर्लभं दर्शनं यतः ॥४२४॥ गुरूणामागमाभावात् , तद्वाणीश्रवणं विना । जिनोक्तधर्मलाभस्तु, तत्रत्यानां सुदुर्लभः ॥४२५॥ मयोररीकृता तेषां, प्रार्थना धर्मवर्धिनी । कियद्भिः साधुभिस्तस्माद्, व्यहार्ष हर्षसंयुतः ॥४२६॥ गूर्जरदेशतो दूरे, चास्ति नंदुरबारपूः । तथाप्युग्रविहारेण, खानदेशे समागमम् ॥४२७॥ अध्वमध्ये समायाताः, भूरिभावसमन्विताः । श्रावका तिनो भक्त्या, दर्शनाय च मे मुदा ॥४२८॥