________________
ज्वलनागस्त्वया नाथ ! रक्षितो हि दयाभृता । नागेन्द्रत्वपदं दत्तं, तस्मै शरणदानतः ॥२६॥ पार्श्वदेव ! नमस्तुभ्यं, मेघोपसर्गकारिणे । कमठाय प्रदत्तं हि, सम्यक्त्वं निजवैरिणे ॥२७॥ समृद्धो व्यंतरो भत्तया, त्वत्संश्लेषकर करी । जातस्तत्र ततस्तीर्थ, प्रवृत्तं कलिकुंडकम् ॥३२८॥ अभयदेवसरीणां, कुष्ठरोगो हतः सदा । स्वत्पभावात्मजातास्ते, सूरयः स्वर्णकायकाः ॥२९॥ एलचपुरराजस्य, विश्ववत्सल ! हे प्रभो ! तवैव भक्तिमाहात्म्यात् , नष्टः कुष्ठादिरोगकः ॥३३०॥ पालनपुरराजेन, पालणाख्येन धर्मिणा । गतं राज्यं पुन: प्राप्तं, त्वत्क्रमाम्बुजसेवया ॥११॥ घृतकल्लोलपाति, प्रसिद्धो घृतवर्धनात् । श्रीफलवृद्धिपार्वेति, प्रसिद्धः फलवर्धनात् ॥३३२॥ चिरं त्वत्क्रमसेवातो, मुक्त आषाढभूतिकः । स्वमहिम्ना जलस्तंभात् , रामो लंकां गतस्ततः ॥१३॥ कृष्णसैन्यं जराग्रस्तं, जरामुक्तं बया कृतं । शंखेश्वरेति तत् तीर्थ, प्रसिद्धं जगतीतले ॥१४॥ किं किं संवर्ण्यते नाथ !, भवदीयगुणावली । जगबंधो । जगन्नाथ | विश्वेऽद्वितीयसबर ! ॥१५॥