________________
: ३५ : नमस्तुभ्यं जिनेन्द्राय, वीतरागाय तायिने ।। भवरोगार्त्तिनाशाय, भाववैद्येश्वराय ते ॥३१६॥ सर्वेऽद्य श्रावका जाता, जिनपादाब्ज-षट्पदाः । कृतपुण्याः कृतार्थास्ते, जगदीश्वरदर्शनात् ॥१७॥ भावविजयपंन्यासा, चक्षुहीनत्वहेतुना । विना हो वीतरागानां, दर्शनं व्यथिताः स्थिता: ॥१८॥ दर्शन श्रीजिनेशानां, कृतपुण्यैश्च लभ्यते । मया पुण्यद्धिहीनेन, क्रियते तत्कथं हहा ॥३१९॥ इति चिंताग्निसंदग्धा, मुग्धा जग्धाः कुकर्मणा । सद् विचाराधिमनाच, ते शोचन्ति दिवानिशम् ॥३२०॥ संकल्पेन दृढेनैव, पन्यासप्रवरैस्तदा । तत्यजेऽनं जलं चैव, जिनेन्द्रदर्शनातुरैः ॥२१॥ ध्यायन् पाव निजस्वान्ते, परित्यज्यान्यकामनाम् । एकाकारत्वमापन्नः, यथा दुग्धे तु शर्करा ॥३२२॥ स्तुवंति ते मुनिश्रेष्ठाः, व्योमस्थं पार्श्वमीश्वरम् । रहसि चैकदा तत्र, स्वीकृत्य पार्श्वसंनिधिम् ॥३२३॥ तुभ्यं देवाधिदेवाय, पार्श्वनाथाय शम्भवे । व्योमस्थाय महेशाय, जिनेशाय नमोनमः ॥२४॥ भवाम्भोनिधिपोताय, चिंतितार्थपदायिने । मिथ्यातमोपनोदाय, नव्यचन्द्रोपमाय ते ॥३२५।।