________________
: ३४ :
॥ ३०६ ॥
अंतरिक्षस्य यात्राये, देव्या वृत्तमुदाहृतम् । तत्र यात्राकृतेऽत्यन्तं त्वरते मे मनोधिकम् श्राद्धेभ्य इति भक्तेभ्यो, निजभावः प्रदर्शितः । लघुसंघेन सार्धं च यात्राये प्रस्थितो मुनिः ॥१०७॥ चलन् सार्धं च संघेन, भावविजयसंयमी । स्मरन् ध्यायन् स्तुवन्नित्यं, पार्श्वनाथं जिनेश्वरम् ॥ ३०८ ॥ पत्तनात् दुरदेशस्थं, विदर्भदेश मंडनं ।
तीर्थ श्रीपार्श्वदेवस्य चासन्नमागतं मुनेः ध्यानं श्रीपार्श्वनाथस्य, करोतिस्म मुनीश्वरः त्रिविधयोगसंशुद्धं, निदानं मुक्तिसंपदाम् शिरपुरे पुरे रम्ये, तीर्थं पवित्रमुल्बणम् । मुक्तिगेहस्य सोपानं विभाति भव्यतारकम् ग्रामस्य समीपं प्राप्तः, संघो भावेन भावितः । हर्षावेशप्रफुल्लांगो, गर्जञ् जयजयारवैः
9
॥ ३०९ ॥
।
॥३१० ॥
॥३१९॥
॥ ३१२॥
आगत्य संघसंयुक्ता - स्तीर्थेऽस्मिन् मुनयो वराः । अंतरिक्षस्य पार्श्वस्य चक्रुः सर्वेऽपि दर्शनम् ॥ ३१२॥ स्तुवंति भव्यसुस्तोत्रैः, श्रावका दर्शनोत्सुकाः । दर्शनामृत संसिक्ता, दिव्यभावा गतश्रमाः ॥ ३१४॥ व्योमस्थं तीर्थनाथं तं दर्श दर्श स्मिताननाः । नृत्यंति मधुरैनदिः, स्तुतिस्म पुनः पुनः
॥३१५॥
}