________________
: ३२ :
पन्यासं भावनामानं मुक्त्वा तत्रैव सद्वदम् । तस्य तु परिचर्यायै, मुनियुग्मं च रक्षितम् ॥२८७||
युग्मम् ।
आन्ध्यदोषेण दुःखी सन् कर्मनिन्दां चकार च । स किंकर्तव्यतामूढो, जातो धर्माश्रयोऽपि च ॥२८८॥ स्मरन गुरूपदेशं च कर्मणां गहनां गतिम् । बलिनो निर्बला दृष्टा, इति कर्माग्रतः समे ॥ २८९ ॥ पंन्यासं दुःखितं दृष्ट्वा चैकदा देवसूरिभिः । निशि पद्मावतीदेवी, साधिता ध्यानयोगतः समागत्य सझंकारा, दिव्यज्योतिर्मयी च सा । उवाच रोगनाशाय, पंन्यासस्य विधिं मुदा रोगनाशपतीकारः, पूर्वोक्तः सद्गुरूत्तमैः । प्रारब्धः पार्श्वनाथस्य, जापरूपो मुनीश्वरैः
1128011
॥२९१ ॥
॥२९२॥
त्रिभिर्विशेषकम् ॥
स तज्जापसमारूढः, यदासीच्छुभभावनः । तस्य पार्श्वे निशि स्वप्ने, समेत्य च सुधाशना ॥२९३॥ कथयतिस्म सद्वाच्यं वृत्तं पार्श्वमभोरिति । कलियुगेऽन्तरिक्षस्य, पार्श्वस्यातिशयो महान् ॥२९४॥ वर्ततेऽध्यक्षरूपेण, सर्वव्याधि - हरोऽनघः । पचाच पार्श्वनाथस्य प्रतिमोत्पत्तिगर्भितः
॥२९५ ॥