________________
उग्रवैराग्यभावेन, पालयता च संयमम् । वैयावृत्यादिकार्येण, प्राप्त ज्ञानमनर्गलम् ॥२७८॥ विनयेन सुनम्रण, भाव विजयसाधुना । शास्त्रज्ञानं सुसंलब्ध, चात्मनैमल्यदं वरम् ॥२७९॥
युग्मम् ॥ सरिणा तीवहर्षेण, तस्मै भावाख्यसाधवे ।। श्रीपंन्यासपदं दत्तं, विधिना शास्त्रचक्षुषे ॥२८॥ श्रीगूर्जराभिधे देशे, पत्तनाख्ये पुरेवरे । समाजग्मुस्तु ते धुर्या, आचार्य देवसूरयः ॥२८१॥ भावविजयनामा च, विश्रुतो जगतीतले । संयम पालयामास, चापमादी सदोज्ज्वलः॥ २८२॥ निदाघकालतो नित्यं, विहारैरुग्ररूपकैः । भावाख्यसन्मुनेरान्ध्य,-मागतं नेत्रयोर्द्वयोः ॥२८३॥ उष्णप्रकृतितो चक्षु-रामध्यात्दुःखी मुनीश्वरः ।। उपायान् विविधांश्चक्रुः, श्राद्धास्तद्रोगशान्तये ॥२८॥ किमपि न फलं प्राप्तं. यत्ना जाता निरर्थका। यद् भावि तद् भवत्येवं, कर्मणां हि विचित्रता ॥२८५॥ तत्र कृषा चतुर्मासों, पत्तने श्रावकाग्रहैः । विजहूरन्यदेशेषु, देवसूरीशपुंगवार