________________
कुल्पाकतीर्थयात्रायाः कृते दक्षिणदेशके । आगता भूरिसंघेन, साध स्तंभनवासिना ॥२१५॥ संधाग्रहाच्चतुर्मासी, तत्राकार्षः सशिष्यकाः । श्रुत्वेति मंत्रिणा प्रोक्तं, ततो भूपेन हर्षतः ॥२१॥ प्रेषितं सचित्रद्वारा, प्रतिपद्य निमन्त्रणम् ।। ते कालज्ञाः समाजग्मु-रत्राचार्याः सशिष्यकाः ॥२१७॥
त्रिमिविशेषकम् दृष्ट्वाऽऽचार्यान् नृपो हर्षात, स्वागतं कुरुते वरम् । आचार्या अपि संतुष्टाः सत्कारिता: शमोदयाः ॥२१८॥ व्योमस्थां प्रतिमां वीक्ष्य, साश्चर्या ज्ञानिशेखराः । चिन्तयन्ति मनस्येवं, नृपस्य स्खलनाफलम् ॥२१९॥ संचिन्त्येति निजस्वान्ते, चाष्टमतपसा स्वयम् । . आराधितश्च नागेन्द्रः, स्वप्ने सूरीनुवाच वै ॥२२०॥ राज्ञश्चित्ताभिमानाच्च, स्वामी चैत्ये न गच्छति । संघद्वारा नवं चैत्यं, भवन्तः कारयन्तु वै ॥२१॥ तथाकृते नवे चैत्ये, प्रतिमा सा प्रवेक्ष्यति । प्रसन्नीभूय नागेन्द्र,-इत्युक्त्वा स तिरोदधौ ॥२२२॥ विज्ञः सुधामुचा वाचा, सूरिभिबोधितो नृपः । . देवोक्तं निशि वृत्तान्तं, हृद्यमुक्तयां नृपाय वै ॥२२६॥