________________
: २० :
.
.
शनबहिश्च निष्काश्या, समेष्यति प्रभावतः । सूत्रबद्धं च तद् बिम्ब, दर्शनीयं मनोहरम् ॥१८६॥ राज्ञा संतुष्टचित्तेन, देवोक्तं निखिलं कृतम् । प्रातरेव सुधावर्षत, सद्वाद्यनादपूर्वकम् ॥१८७॥ देवोक्तं विधिना शीघ्रं, बिम्ब लब्धं नृपेण तत् । पूजितं निर्मलद्रव्य, धूपदीपादिभिस्तथा ॥१८॥ स्वस्तिकेन च मुक्तानां, रत्नानां च प्रभास्वताम् । जिनाग्रे पूजनं कृत्वा, तुष्टः पुष्टो नरेश्वरः ॥१८९।। देववाक्यानुसारेण, विधिवत्कृतकार्यकः । धन्यमन्यो वदान्योऽभूत् , पुण्यपूतोऽवनीश्वरः ॥१९०॥ नालैरपक्वसूत्रश्च, राजाऽयं शकटं व्यधात् । स्वतस्तत्रोपविष्टा सा, प्रतिमा गरिमान्विता ॥१९१।। चमत्कृतैर्जनःसर्व-विस्मितैर्हर्षमेदुरैः । जय जयेति नादेन, पूरितं सकलं जगत् ॥१९२॥ जन्मसप्तदिनौ वत्सौ, योजितौ शकटे वरौ । शकटं प्रतिमापूतं, चालयतः शुभाशयौ ॥१९॥ तत्पुरोगो नृपो वीरो, यातिस्म श्रद्धया मुदा । पश्चात्प्रेक्ष्यं त्वया नेति, देवाज्ञां मस्तके दधत् ॥१९४॥ अतिदूरे समागत्य, नृपतिनेति चिंतितम् । समायाति न वा पृष्ठे, सबिम्बः शकटो गुरुः ॥१९५।।