________________
राज्ञोक्तं रे सुराधीश ! धरणेन्द्र ! शृणु मे वचः । लोककल्याणकार्याय, याचेऽहं प्रतिमां वराम् ॥१७६॥ विधिवत् पूजयिष्यामि. तां रक्षिष्यामि सर्वथा । . . देहि मह्यं मुदा देव ! प्रसन्नोऽसि यदा मयि ॥१७७॥ स्वीकृतं धरणेन्द्रेण, प्रसन्नेन विचारिणा । तां दातुं प्रतिमां पूज्यामपतिमात्मशुद्धये ॥१७॥ उवाच धरणेन्द्रस्तु, पुण्यपाग्भारतस्तव । कल्पलतेव संपाप्ता, सर्वार्थसिद्धिसाधिका । ॥१७९॥ प्रतिमा प्राक्तनी दिव्या, बहुपुण्यानुषंगतः । लभ्यते भाग्यसंभाभक्तैर्यत्नैर्महत्तरैः ॥१८०॥ बिम्ब श्री पार्श्वदेवस्य, सुरक्ष्यं सर्वतोऽधिकम् । अनाधर्महीनैश्च, दुर्भव्यैश्च विशेषतः ॥१८॥ मम प्राणाधिकं बिम्ब, पार्श्वदेवस्य वल्लभम् । अवज्ञातोऽस्य देवस्य, दुःखं भावि ममाशये ॥१८२॥ युस्मद्भक्तिसमाकृष्टो, बिम्बं ददामि जीववत् । । कल्याणाय च लोकस्य, भक्तस्येप्सितदायि यत् ॥१८॥ प्रातःकाले त्वया नालै:, कृता या च मुखासिका । सा जलान्धौ समुत्तार्या, बद्धा चापासूत्रकैः ॥१८॥ तस्यां सुखासिकायां च, बिम्बं मोक्ष्यामि सत्वरम् । भासुरं धर्मसंस्कर्तु, पोतकल्पं भवाम्बुधौ ॥१८६॥