________________
संजातोऽथ तदाकारो, देवध्यान कनिष्ठितः । दृष्ट्वा यक्षः समाधिस्थं, नृपं संतुष्टमानसः ॥१५६॥ दृढं चित्तं तथाभावं, परीक्ष्य स नरेशितुः । यावद्दिनत्रयं भूपे, सर्वथा साधनापरे ॥१५७॥ अधिष्ठायकदेवोऽत्र, प्रादुर्भूयात्रीदिदम् ।। श्रीखरदूषणेनेयं, प्रतिमा कारिता पुरा ॥१५॥ स्थापिता जलकूपेऽस्मिन, चमत्कारसमुन्नता । तत्रत्यसलिलस्पर्शाद्, रोगः शान्तस्तव द्रुतम ॥१५९॥ तत् किं यदस्ति सामर्थ्य, वक्तुं कैश्चन पार्यते ? अचिंत्योऽस्य प्रभावोऽयं, ज्ञातुं शक्यो न मानवैः ॥१६०॥ राजयक्ष्मादिका रोगाः, कपित्तादिसंभवाः । असाध्या दुःखदाः सर्वे, शाम्यति तोययोगतः ॥१६१॥ प्रतिमास्पर्शितोयस्य, प्रभाषेण सुभास्वरः । कद्रूपोप्यंगहीनोऽपि, रम्यकायः प्रजायते ॥१६२॥ किं कथ्यते प्रभारोऽस्या: प्रतिमाया विशांपते! । कल्पलतेव कालेऽस्मिन् , कलौ वांछित्तदा च सा ॥१६॥ तव पुण्यस्य पुभेन, लब्धो योगो जिनेशितुः । गच्छेति स्वस्थले राजन् ! ब्रुवन् देवः तिरोदधौ ॥१६॥ स्वप्ने या प्रतिमा राज्ञा, दृष्टा सा शुभभाविता । याचिता देवपार्श्व वै, तीव्रात्यन्ताग्रहेण च . ॥१६५॥