________________
मनोगत्याश्ववेगेन, दीर्घभूमि ससार च ।। सकाशे वटवृक्षस्या-गतो मनोरथैः सह ॥१४६॥ स्वच्छसलिलसंव्याप्तं, मानससोदरं सरः । श्रीश्रीपाल: समीक्ष्याथ, स्वशिबिरं ततान सः ॥१४७॥
॥ युग्मम् ॥ परिवार ः परीतश्च, बली श्रद्धासमन्वितः । धैर्यमाधाय संविज्ञो, मनःस्थैर्याद्रिसनिमः ॥१४॥ प्रतिमादर्शनोत्कण्ठः, संकल्पसाध्यसाधकः । उच्चैरुद्घोषयामास, हस्ताभ्यां बलिमाददत् ॥१४९॥ शृणुत देवता! देवाः!, क्षेत्रपाला! अधीश्वराः ! दीयमानं बलिं भक्त्या, गृहणीत करुणापराः ॥१५०॥ ते पार्श्वजिनदेवस्य, प्रतिमां दर्शयन्तु माम् । दर्शनातुरचित्तोऽहं, विह्वलोस्मि वियोगतः ॥१५१॥ पाकतनी प्रतिमां द्रष्टुं, दिष्ट्या धावति मे मनः । श्रद्धावासितभक्तस्य, प्रयत्नो नैव निष्फलः ॥१५२॥ अस्मात् स्थानान्न गच्छामि, विना दर्शनमुत्तमम् । प्रत्यक्षाभूय भो देवाः ? यूयं यच्छत दर्शनम् ॥१५॥ भूयो भूयो नृपोऽवोचद्, दत्त दत्तेति दर्शनम् । श्रुत्वा दृष्येति संजात, -चिंतामग्नः परिच्छदः ॥१५॥ भोजनादि परित्यज्य, राजा निश्चितमानसः । एकासनं समादाय, देवाराधन-तत्परः ॥१५५॥