________________
राझ्या पृष्टं सुधावाचा, ब्रूहि सत्यं नरेश्वर! । ... अधुना दृश्यमानं तत् , स्वास्थ्य प्राप्तं कथं त्वया ? ॥१०६॥ गतेऽहनि च त्वया कस्मिन् , स्थाने पर्यटनं कृतम् । किं किं तत्र कृतं कार्य, सर्वमाख्याहि मां प्रभो ! ॥१०७॥ जलाशयस्य चान्धोर्वा, पीतं शीतं जलं किम् । करचरणवक्त्राचं, किं धौतं तज्जलात् त्वया ? ॥१०८॥ सर्व विचिंत्य भो नाथ! सत्यमारोग्यकारणम् । सत्यं ज्ञातुमनाश्चाई, वदाधुना ममेश ! माम् ॥१०९॥ स्वस्थांगोऽथावदद् राजा, श्रीपाळोऽपि श्रियांनिधिः । भृणु प्रियेऽनघे! सत्यं, कथयामि यथातथम् ॥११०॥ इतः सुदूरमार्गे च, विकटेऽश्वस्थितो द्रुतम् । क्रीडायै निःसृतोऽहं वे, स्वानुगैरल्पसंख्यकैः ॥१११॥ निदाघकालतोऽत्यंत, तृषितः श्रमितश्च तु । न्यग्रोधवृक्षमाश्रित्य, स्थितोऽहं शौचहेतवे ॥११२॥ आसनाच्च तडागातु, जलं शीतं समागतम् । पापीतं तेन धौतं च, हस्तपादाननादिकम् ॥११॥ मया निश्चीयते चाध, तज्जलस्पर्शनान्मम । स्वल्परोगोपशान्तिश्च, जाता निद्रापि चागता ॥११४॥ कश्चिद् दिव्यमभावोऽस्मिन् , जले शीते प्रवर्तते । कथं नु स्यादरं शान्तिः, कुष्ठरोगापहारिणी? ॥११५॥