________________
: ११:
स्वपुरं च समासाय, हर्षान्वितो विशांपतिः । राइया हि प्रेक्षितः प्रेम्णा, स्वहर्ये सोऽविशत्पुनः ॥१६॥ स्वैरं भुत्तवा स्वकैौंकः सार्ध वार्तामचीकरत् । निवृत्तः कार्यतः श्रान्तः पल्यंके शयितो मुदा ॥१७॥ निद्रां प्राप्तो सुशय्यायां, सुखसुप्तोऽवनीश्वरः । .. विशिष्ट प्रेक्ष्य राजानं, राज्ञीमिश्चिन्तितं शुभम् ॥९॥ दीर्घकालाचतो लब्धा, निद्रा राज्ञा सुखावहा । आश्चर्यचकिता राज्ञी, विचारयति चेतसि ॥१९॥ सुवर्णसदृशौ दृष्ट्वा, हस्तपादौ नरेशितुः । आननमपि तादृक्षं, चमत्कारकरं नृणाम् ॥१०॥ युग्मम् मुखनिद्रावतो राज्ञो, नष्टा किं कुष्ठवेदना । हर्षला मुदिता राज्ञी, भयहीना विकस्वरी ॥१०१॥ संकल्पा उपजायन्तेऽनेके राड्या मनोगृहे । किं जातः केन हेतुना, राज्ञो देह: शुभो वरः ॥१०२॥ अनुमानेन तर्केण, राज्ञी चित्ते व्यचिंतयत् । केन दिव्यप्रभावेण, नृपो नीरोगतां गतः ? ॥१०॥ प्रातःकाले समुत्थाय, प्रसन्नवदनो नृपः । संस्मृत्येष्टं निजं देवं, स्वस्थचित्तस्ततः स्थितः ॥१०४॥ किंचिदवगतं लोकात् , किंचिदैतिगतस्तथा । किंचित् स्वानुभवाज्जातं, वृत्तं वच्मि यथातथम् ॥१०५॥