________________
नानास्तडागैश्च, राजिते काम्यकानने । परिवारः परीतश्च, दूरभूमौ प्रमोदभाक् .. ॥८६॥ आगतो दिव्यरूपोऽयं, भूघनशैत्यहेतवे । गच्छन् मध्यस्थसूर्येण, तापितोऽतीवदुःखभृत् ॥८७॥ अटव्यामतिदीर्घायां, वटवृक्ष समाश्रयत् ।। वटवृक्षं समाश्रित्य, तुष्टः शीतेन वायुना ॥८॥ तृष्णापीडितचित्तोऽथ, प्रेषयितुं च किंकरम् । चादिशत् सत्वरं नेयं, मत्कृते शीतलं जळम् ॥९॥ विशदं जल-संपूर्ण, निर्मलादर्शसंनिभम् । सरोवरं वरं दृष्ट्वा , नृपफर्मपरायणः
॥९ ॥ सर्वभाण्डानि संभृत्या,-जगाम शीतवारिणा । रम्यगत्या शुभध्यानात् , कार्यकन्नृपसंनिधौ ॥९१॥ युग्मम् प्रक्षाल्य हस्तपादौ च, पीत्वा शीतजलं तथा । सौहित्यं प्राप्य राजाऽयं, जगादेवं धियां वरः ॥१२॥ अहो रम्यमिदं स्थानं, रोगिनां रुचिरं वरम् । जलं शीततरं शुद्ध, मधुरं शान्तिदायकम्
॥९ ॥ न दृष्टं न श्रुतं कापि, नास्वादितं कदाचन । उष्णे निदाघकालेऽस्मिन् , लब्धं भाग्यनियोगतः ॥१४॥ विश्रम्य च चिरं तावत् , प्रतिनिवृत्य भूपतिः । सानुगश्च स संध्याया,-मेलचपुरमासदत् . . ॥१५॥