________________
प्रतिमाया बहुःकालो, जलेऽस्मिन् विगतः शुमः । प्रतिमा स्वप्रभावेण, देवैश्च पूजिता मुदा. ॥६६॥ एकादशसु लक्षेषु, वर्षेषु वै गतेषु च । अधिकेषु च कूपेऽस्मिन् , प्रतिमा निःसृताऽन्धुतः ॥६॥ विक्रमाख्यस्य राज्ञश्च, द्वादशशतवर्षके । गते काले समुत्पन्नो, नृपः श्रीपालनामकः ॥६८॥ तस्य वृत्तं शुभं सत्यं, श्रुण्वन्तु समवृत्तयः । । विदर्भनामके देशे, नगरमेलचाभिधम् धनान्यरिलोकेश्च, धनधान्ये विराजितम । गगनस्पर्धिभिश्चैत्यर्पोमयान-सहोदरैः ॥७॥ भक्तिमद्भिः कृतैर्नादः, पूतैर्गजेत्समन्ततः । राजते भूमिभामिन्या, भाले पुण्ड्वदुत्तमम् ॥७१॥ त्रिभि
विशेषकम् ॥ सतां संगानुरागाक्तनगरं नागरयुतं । न्यायनैपुण्यसंपन्नो, धर्मकर्मैककर्मठः
॥७२॥ श्रीश्रीपालाभिधस्तत्र, राजा राज्येश्वरो महान् । पुण्यश्लोकः सदानंदी, परोपकार-संवनी ॥७३॥ युग्मम् ॥ राज्यं चकार सवृत्त्या, प्रजाप्रियो विशांवरः । एकदा कर्मयोगेन, कुष्ठरोगेण पीडितः ॥७॥ निद्रामपि तु नो लेभे, कर्मणां हि विचित्रता । रम्ये कायेऽपि तद्रराज्ञः, व्याप्ताः कीटाश्च कृमयः ॥७५॥