________________
दयासिन्धो ! शरण्योऽसि, भवाम्भोनिधितारकः । भवाग्निनीरदोऽसि त्वं, देहि मां शरणं प्रभो ? ॥५६॥ जिन! त्वयि शरण्ये मे, भयं नास्ति कदाचन । भीतानां ह्यभयं स्थानं, जिनेन्द्रचरणाम्बुजम्.
॥५७॥ अरण्येऽस्मिन् मया दृष्टाः, प्रभो! दिष्टया निरंजन! । नव्यनिर्मितबिम्बेऽस्मिन् , दिव्यकोटिविकतनाः ॥५८॥ फुल्लाननोऽर्चनां कृत्वा, द्रव्यभावैद्विधा मुदा । नमस्करोति सद्भक्त्या, स्तुत्वा नृपः पुनः पुनः ॥५९॥ सिकतागोमयैर्जातं, बिम्बं जगन्मनोहरं । . एतस्याशातनां कुर्यानवाज्ञः कोऽपि पापक: ॥६॥ वज्रसहोदरं बिम्ब, कृत्वा दृढतरं ततः ।। संमुदितो नृपस्तुष्टो, ददर्शाऽथ पुनः पुनः ॥६॥ विधायाची कृतार्थः स, भोजनार्थी नृपः कृती। पटांतरे कृताहार:, प्रसन्नः पुण्यमूर्तिमान्. ॥२॥ संविचार्य शुभोदक, मानसे भक्तिभावभृत् । सा प्रतिमा मनोरुच्या, वेलुगोमयसंकुला. ॥६॥ आशातनां निराकर्तु, क्यापि स्थाप्या मयेति वै । विचित्य तां समादाय, पागतः कूपसंनिधौ. ॥६॥ भूयो भूयोऽपि तां दृष्ट्वा, स्मृत्वा स्मृत्वा पुनः पुन । स्क्षायै तीर्थनाथस्य, बिम्बं चिक्षेप कूपके.. ॥६५॥