________________
: १२८ :
आबालब्रह्मचर्यस्थाः, तेजस्विनः शुभोदयाः । गुम्फका ग्रन्थरत्नानां, सिद्धवाचो गुणालयाः ॥११४८॥ जिनाज्ञापालकाः सौम्या, प्रसन्नाः प्राप्तधीधनाः । प्रश्नानां प्राज्ञपृष्टानां, सम्यगुत्तरदायकाः ॥११४९॥ वादिगणेषु वादीन्द्राः, कवीन्द्रकुलशेखराः । व्याख्याक्षणे हि राजन्ते. ये वाचस्पतयः खलु ॥११५०॥ पाठका जैनशास्त्राणां, शिष्यपशिष्यसंहतौ । निर्मातार: प्रकाव्याणां, विविधच्छन्दसा द्रुतम् ॥११५१॥ समये विकटे नूनं, विपरीतपरिस्थितौ । शासनस्य सुरक्षायां बद्ध्वा कटिं सदोद्यताः ॥११५२।। ग्रन्थानां सत्यहीनानां. निर्भीकाः खण्डनोद्यताः । आज्ञाविश्वाससम्प्राप्त्य, ग्रन्था यैश्च विगुम्फिताः ॥११५३॥ कटोसणनरेशश्री-तख्तसिंहः प्रबोधितः । सरिभिधर्मवाण्या च, कृतो दयापरायणः ॥११५४॥ अन्येऽपि नगराधीशाः, बोधिताः सूरिपुङ्गवैः । दयाधर्मोपदेशेन, न्यायनीतिमयेन ये ॥११५५॥ स्वाधीनभूमिसीमायां, मृगया परिवर्जिता ।। अभय कोटिजोवानां. प्रत्यब्दं तैश्च दीयते ॥११५६॥ तेषां पुण्यप्रभावाणां, वैगग्याध्यात्मवेश्मनाम । जातानि धर्मकृत्यानि, सम्यग् धर्मोपदेशतः ॥११५७॥