________________
: १२६ :
बुद्धिविजयशिष्या ये, धीधना: शास्त्रचक्षुषः । संविग्नपक्षधौरैया. विजयानन्दसूरयः ॥२१२८॥ वादं कृत्वा जयं लब्ध्वा, लुम्पकेभ्योप्यनेकशः । सहस्राणि दश श्राद्धाः, कृताश्च मूर्तिपूजकाः ॥११२९।। दर्शनशास्त्रवेत्तारो, जैनधर्मदिवाकराः । विजयानन्दसूरीन्द्राः, वादीन्द्रास्ते जयन्तु वै ॥११३०॥ अनेकग्रन्थरत्नानि, विश्रुतान्यवनीतले । कृतानि शास्त्रसिद्धानि, विजयानन्दसरिमिः ॥११३१॥ जैनशासनतत्त्वेषु, विश्वस्ता धर्मबुद्धयः । जज्ञिरेऽनेकशः श्राद्धा, येषां ग्रन्थावलोकनात् ॥११३२॥ पाश्चालदेशजैनानां, उद्धारो यैः कृतो वरः । कष्टेनोग्रविहारेण, बुद्धया तर्कोपदेशतः ॥११३३॥ तपोगच्छाम्बरे सुराः कुबोधतिमिरापहा: । जाता ये विश्वविख्याताः, शासनस्य प्रभावकाः ॥११३४॥ स्वेतरांग्लविदेशेषु, येषां कीर्तिः समुज्ज्वला ।... प्रसूता चन्द्रतो गुर्वी, तर्कबुद्ध्यनुभावतः ॥११३५।। तेषां च पट्टपूर्वाद्रि, द्योतकाः धर्मरक्षकाः । नि:स्पृहिणां शिरोरत्न-भूताः कमलसूरयः ॥११३६॥ जैनशास्त्रस्य वेत्तारो, नैष्ठिकब्रह्मचारिणः । सजाता विश्वविख्याता:, तेजस्विनो महाशयाः ॥११३७॥