________________
: १२५:
तस्य नश्यति दारिद्रयं, विलीयन्ते विपत्तयः । प्रभ्रश्यन्ति समे रोगाः, पार्श्वनाथस्य चिन्तनात् ॥१११८॥ तपसा ब्रह्मचर्येण, इन्द्रियाणां जयेन च । यो जपेत्पार्श्वनाथस्य, नाम सर्वार्थसाधकम् ॥१११९॥ तस्य गृहे निधानानि, क्रीडन्ति स्वेप्सया स्वयम् । ऋदयः सिद्धयः सर्वाः, सिद्धयन्ति क्षणमात्रतः ॥११२०।। पंगुलं नेत्रयोरान्ध्यं, खाखमंगहीनता । कुष्ठभगन्दराद्याश्च, रोगा नश्यन्ति तस्य च ॥११२१॥ वियोगिलं च दारिद्रयं, दीनखं रिपुपीडनम् । उपद्रवाः क्षयं यान्ति, पार्श्वनाथस्य पूजनात् ॥११२२॥ पार्श्वनाथपभावस्य, क्रियते वर्णनं कियत् । एकया जिह्वया तत्तु, वक्तुं शक्यं कथं भवेत् ॥११२३॥ किं दूरं किं च दुष्प्रापं, किमसाध्यं च दुष्करम् । दुर्घटे कि हि तस्यैव, यस्य पार्धाभिचिन्तनम् ॥११२४॥ विजयानन्दमरीशं, शासनव्योमभास्करम् । जैनशास्त्राब्धिपारीणं, श्रीन्यायाम्भोनिधि स्तुवे ॥११२५।। यैश्च जिनेन्द्रबिम्बस्य, शास्त्रविहितपूजनम् । ज्ञाखा सम्यग्सुशास्त्रेभ्यः, समीक्ष्य तीक्ष्णबुद्धितः ॥११२६॥ त्यत्तत्रा लुम्पकमार्ग तं, संश्रित्य मूर्तिपूजकम् । पन्थानं श्रद्धया भत्त्या, सम्यग धर्मोऽपि वर्धितः ॥११२७॥
युग्पम् ॥