________________
: १२१ : श्रीमत्समरतश्राद्धयै, सरस्वत्यै तथाऽपि च । प्रदत्ता मानतः सभ्यः, अभिनन्दनपत्रिका ॥११०२॥ अन्येभ्यः कार्यकारिभ्यो. धन्यवादाश्च भूरिशः । अर्पिताः सभ्यलोकैश्च, कृतकार्यानुमोदिभिः ॥११०॥ प्रतिष्ठाया निमित्तेन, संजातं धर्मवधनम् । देवद्रव्यादिक्षेत्रेषु, वृद्धिर्जाता प्रशंसिता ॥११०४॥ धर्माशीर्वचनं श्रुत्वा, मम मुखारविन्दतः । मम करकजात् सर्वः, वासक्षेपग्रहः कृतः ॥११०५॥ भुवनतिलकसरिः शिष्यवृन्देन साध । गगनतळसुसंस्थं पार्श्वनाथ जिनेन्द्रम् ॥ . नमनरुचिरमावादर्शनापूतचेताः । स्मरति भजति तीर्थ मण्डने चान्तरिक्षे ॥११०६॥ निहितमनुपमं यद् व्योमयानेन तुल्ये । रुचिररचितदिव्ये शोभने नव्यचैत्ये ॥ परिकरपरियुक्तं पार्श्वनाथस्य बिम्बं । जयतु हरतु विघ्नं भक्तिभाजां च नृणाम् ॥११०७ अथ जिनवरबिम्ब पार्श्वनाथस्य सौम्यं । अनुपमकृतचैत्ये स्थापितं सोत्सवं तत् ॥ भुवनतिळकनाम्ना सूरिणा चान्तरिक्षे । जयतु चिरमवत्तत् पार्श्वनाथस्य तीर्थे ... ॥११०८॥