________________
: ११८ :
नारीभिमधुरैगीतेः, धवलमंगलादिभिः । अक्षतकुसुमोघेश्व, विश्वं तु मंगलीकृतम् ॥१०७२।। ससंधैर्भावनापुण्यैः, साधुभिः सह सरिणा । सम्मुखं जिनविम्बानां, चैत्यस्य वन्दनं कृतम् ॥१०७१।। स्तुतः स्तवनवै आँव-गाम्भीर्यगभितैः प्रभुः । अस्माभिः कृतकृत्यैश्व, तन्मयश्व सुभावनैः ॥१०७४॥ भोजनं सुष्ठु संजातं, प्रतिष्ठायाः सुवासरे। पश्चसहस्रनानां, सघर्मणां सुप्तिदम् ॥१०७५।। भक्तिः समरतश्राद्ध्याः , सदौदार्य तथैव च । आगतैः सर्वसुश्राद्धः, प्रशंसितं विशेषतः ॥१०७६॥ अष्टाग्रशतपूजामिः, सर्वलोकस्य शान्तिदम् । सुमंत्रोच्चारणेनैव, शान्तिस्नात्रं प्रपाठितम् ॥१०७७॥ सम्मुखे पार्श्वनाथस्य, क्रियाविधानवेदिभिः । कृता महाक्रिया सर्वा, ममाचार्यस्य सन्निधौ ॥१०७८॥ नृत्नचैत्ये बलिं दवा, निष्पापमंत्रवेदिभिः । नैवेद्येस्तोषिता देवा, गुह्यकव्यंतरादिकाः ॥१०७९॥ आहूता देवताश्चैव, ग्रहपूजनसद्विधौ । विसृष्टा अर्थयित्वा च, क्षमां विधानकारकैः ॥१०८०॥ मुमुदिरे ततः सर्वे, सभ्या इभ्या सुसज्जनाः । महोत्सवे तु निर्विघ्ने, पर्याप्ते हि शुभाशयाः ॥१०८१॥