________________
जोता धन्या वयं चाद्य, कृतकृत्यास्तथा वयम् । कृतपुण्याः ससौभाग्या, निरीक्ष्य तु महोत्सवम् ॥१०६३।। अत्रान्तरे च संपाप्ता, जैनाचार्याः सुबुद्धयः । अवनतिलकाभिख्या, अस्मत्पुण्यसमृद्धितः ॥१०६४॥ जल्पन्ति श्रावकाः सर्वे, हर्षावेशसुमेदुराः ।। उत्सवोऽभूत् प्रतिष्ठायाः, सम्पूर्णी यत्प्रभावतः ॥१०६५॥ पार्श्वनाथभाषेण, कृपया सद्गुरोस्तथा । प्रतिष्ठायाः शुभं कार्य, पर्याप्तं जातमद्भुतम् ॥१०६६॥
युग्मम् । वर्णयन्ति च सर्वेऽपि, व्योमस्थस्य प्रभावतः । पाश्वनाथस्य सामीप्ये, जातः शस्यः सदुत्सवः ॥१०६७॥ दृष्टा सर्वे चमत्कारान् , प्रत्यक्षाम्पाश्वसनिधौ । विविधाकल्पनातीतान् ,
विस्मिताः प्रेक्षका भृशम् ॥१०६८॥ प्रतिष्ठाकार्यपूर्णवं, मूर्तितेजोऽभिवर्धितम् । दृष्ट्वा गदन्ति सर्वेऽपि, कलौ माहात्म्यमुत्तमम् ॥१०६९॥ उत्थाय सर्वसंधैश्च, पुष्पधूपैः सुमौक्तिकैः । अमूल्यवस्तुसद्व्यः , जिनदेवाश्च पूजिताः ॥१०७०॥ प्रतिष्ठावसरं प्राप्य, जिनाधस्तु निधिर्भृतः । स्वर्णरजतमुक्ताभिः, धनाढ्य वनोमिभिः ॥१०७१॥