________________
: ११६
इति ज्ञापयितुं पान्थान्, एतच्च चैत्यमद्भुतम् । स्थापितो रुचिरो दण्डः, स्वर्णयष्टिसहोदरः ॥ १०५४॥ तस्योपरि सुवर्णैश्च विचित्रै राजितो वरः । ध्वजः कौशेयसम्बन्धी, आरोपितः सुरंगतः ॥ १०५५॥
मूलनायक पार्श्वस्य, विम्बं तेजोनिधीश्वरम् । समरताह्वया तत्र, लालचन्द्रस्य भार्यया संस्थापितं बहु द्रव्य-व्ययेन गर्भसद्मनि । मुकुटकुंडलैर्भव्ये - रलंकारैश्च भूषितम्
॥ १०५६॥
अन्येभ्यो जिनबिम्बेभ्यो, मुकुटकुंडलादिकम् । भूषणं विविधं श्राद्धैः, हर्षेण परिधापितम् ॥ १०५८॥
प्रतिष्ठापक्रमे सर्वे:, प्रेक्षकैर्जेन बन्धुभिः । जयजयारवैः सर्व, गर्जत्कृतं जगत् खलु
॥१०५७॥
युग्मम् ॥
समवसरणस्थाच, जाने किल जिनेश्वराः । राजन्ते तादृशाः सर्वे चैत्येषु स्थापिताः किल ॥ १०५९॥
युगपद्वादितवाद्य - नादैः कर्णप्रियैः वरैः । प्रसारितं सुमांगल्य- मक्षतं वाद्यवादिभिः प्रतिष्ठा कार्य पूर्णत्वं, या निर्विघ्नभावतः । जहपुर्ननृतुः सर्वे, संघस्थाः श्रावकास्तदा
॥१०६०॥
॥२०६१।
॥१०६२॥