________________
: ११४ :
व्याख्यानं मया दत्तं मण्डपे शोभयान्विते । श्रुत्वा सभास्थिताः सर्वे, लभन्ते धर्मनोदनाम् || १०३५॥ आकर्ण्य धर्मसद्व्याख्यां, संजाताः केऽपि धर्मिणः । जिनभक्तिरता शस्याः केऽपि दानरुचीश्वराः || १०३६ ॥ उत्सवेऽनेककृत्येषु वर्षन्ति स्वघनोदकम् । धनाढ्याः क्षणिकं मना, हस्तमलमिवामलाः ॥१०३७॥ सर्वेषां जिनबिम्बानां, बद्धानि जैनसंघतः । सहस्रद्वयरूप्याणि, स्थापनाये जिनालये ॥१०३८ ॥ दवा तानि च रूप्याणि, स्थापिताः प्रतिमाश्च ताः । श्रावकैर्भाविनारूढैः, ममाचार्यस्य सन्निधौ
॥१०३९॥
युग्मम् ॥
"
प्रतिष्ठायाः कृते शस्यं जायतेऽत्यंत हर्षदम् । प्रत्यहं सुविधानं च तज्ज्ञद्वारा क्रियात्मकम् ॥ १०४०॥ शस्ये विदर्भदेशेऽस्मिन् चिरकालादनन्तरम् । ऐतिहासिकरूपोऽयं, जातोऽपूर्वमहोत्सवः एतं द्रष्टुं जनाचात्र, प्राक् पत्रिकानिमन्त्रिताः । समायाता भूरिसंख्याः,
॥ १०४१ ॥
तीर्थेऽस्मिन् भक्तिपूरिताः || १०४२ ॥ न चिन्तितं न च क्लृप्तं, कैरपि मानसे हीदम् । आदर्शन सुरूपेण, भविष्यत्यत्र चोत्सवः वर्तमाने विधौ शिष्टे, प्राप्तो मंगलवासरः ।
॥१०४३॥