________________
तनोतु मंगलं सोऽत्र, भव्यानां भक्तिसंजुषाम् । दीव्यज्ज्योतिःस्वरूपोऽयं, लसन्मंगलदीपकः ॥१०२५॥ आबालप्रौढवद्धाद्याः, सोत्सवे रंगमण्डपे । उपविष्टा विराजन्ते, मन्ये द्युत्या दिवौकसः ॥१०२६॥ मरुगूर्जरसौराष्ट्र-महाराष्ट्रादिवासिनः । राजन्ते विविधैषैः, शिरोवेष्टनवेष्टिताः ॥१०२७॥ औदार्यमूर्तिमभिस्तैः, वित्तदानप्रवाहकैः । मर्त्यगणवरेण्यैश्च, महोत्सवो विशिष्यते ॥१०२८॥ मोत्तुंगे दिव्यचैत्येऽस्मिन् , प्रतिमानां च संहतिः । दिव्यया ज्योत्स्नया रेजे, श्रीजिनानां महासभा ॥१०२९॥ प्रदक्षिणान्तरस्थाने, पीयूषरसनिझराः । चन्द्रसौम्याननाः सर्वा, राजन्ते प्रतिमा वराः ॥१०३०॥ शिखराभ्यन्तरस्थाने, चतुर्दारे जिनालये । स्थापितजिनबिम्बानि, ब्रह्माभानि च रेजिरे ॥१०३१॥ गगनस्पर्शनाचैत्यं, वदति पथिकाग्रतः । सर्वोच्चपार्श्वनाथस्य, दर्शनं च विधीयताम् ॥१०३२।। नेत्रमनोहरे चैत्ये, उज्ज्वले मेरुसनिमे ।। भान्ति बिम्बानि देवानां, मोक्षस्थानीव तानि च ॥१०३३॥ आमूलं जिनचैत्यस्य, कार्यस्य मार्गदर्शकः । तीर्थोद्धारकृते नित्यं, यत्नवानहमस्मि वै ॥१०३४॥ ૧૨