________________
: ११२ :
जयारवं च कुर्वन्ति, सम्मदभरनिभराः । तत्रस्था धर्मसंलग्नाः, समीक्ष्योत्सवमद्भुतम् ॥१०१५॥ उत्सवे धर्मरङ्गेऽस्मिन् , नूतने जिनसमनि । प्रतिष्ठायाः प्रसङ्गे तु, प्रव्रज्याया महोऽभवत् ॥१०१६॥ छाणीतिग्रामवास्तव्य-मोहनलालर्पिणः । सुपुत्रो मनकाभिख्यः, षोडशाब्दो विरक्तिभाग ॥१०१७॥ स्वकौटुम्बिकलोकेन, सार्ध तीर्थे समागतः । दीक्षापादिनयामिन्यां, सर्वसड्वेन मानितः ॥१०१८॥ माघकृष्णत्रयोदश्यां, मया तु मोदधारिणा । सुविधिना सभामध्ये, दीक्षितो जिनसम्मुखे ॥१०१९॥ वीरसेनस्य शिष्योऽयं, महासेनानिधो मुदा । ख्यापितो मयका तत्र, दीक्षाक्षणे जयारवैः ॥१०२०॥ स्वर्णे सुवाससंयोगो, महेऽभूदवितर्कितः । प्रतिष्ठादीक्षयोर्योगो, जातो दिव्यानुभावत: ॥१०२१॥ कैः कैन कीर्तितं कृत्यं, दीक्षादानात्मकं शुभम् । श्रुतसारं महातवं, मोक्षाध्वरथसन्निभम् ॥१०२२॥ शब्दाकृत्या न लिख्यन्ते, वर्ण्यन्ते नैव जिह्वया । संज्ञया नैव दश्यन्ते, जानते तानि दर्शकाः ॥१०२३॥ मग्ना धर्माम्बुधौ लोका: पवित्राङ्गा विकस्वराः । कुर्वन्त्यारात्रिकं तत्र, तिमिरध्वंसिदीपकैः ॥१०२४॥