________________
वादितानि च वाद्यानि, तन्वन्ति मङ्गलानि वै । अपहाय च विघ्नांश्च, शकुनान् कथयन्ति च ॥१००५।। निशावासरभेदस्तु, ज्ञायते नैव मानवैः । क्रियाविधानपूजादि-वातावरणसंवृतः ॥१००६॥ आदिनाद् रात्रिपर्यन्तं, सर्वे धर्माभिसम्मुखाः । विस्मृत्यान्यानि कार्याणि, जाता उत्सवरङ्गिताः ॥१००७॥ तत्राअनशलाकायां, प्रभोः कल्याणकानि वै । उयोतितानि पुण्यानि, पञ्च तादृश रुपतः ॥१००८॥ मत्ता हर्षभरादिन्द्रा, यथा कुर्वन्ति चोत्सवम् । कृतस्तथैव तादृक्षो, महोत्सवः सुहर्षत: ॥१००९॥ उत्सवे रससम्पूर्णे, रसविद्धा सुमानवाः । एकाकाराः प्रदृश्यन्ते, पञ्चकल्याणकेषु वै ॥१०१०॥ जल्पन्ति हर्षतो मत्ताः, प्रेक्षका विधिदर्शकाः । अहो कदाऽपि नो दृष्टः, चास्माभिरीशो विधिः ॥१०११॥ निर्विघ्नानि विधानानि, जायन्ते प्रत्यहं मुदा । कृपया पार्श्वनाथस्या स्मिन् विघ्नस्थानकेऽपि च ॥१०१२॥ विविधवाद्यनादेश्व, तालैश्च मधुरै रवैः । गायन्ति केऽपि नृत्यन्ति. स्तुवन्ति भक्तिमण्डपे ॥१०१३॥ स्त्रीय कार्य परित्यज्य, भक्तिसनिष्ठमानसाः । वीक्ष्यन्ते मानवाः सर्वे, श्रीपभावर्पिता इस ॥१०१४॥