________________
: ११०
वादिध्वनिना छत्र, मण्डपोऽतीव गर्नति । आगन्तुकजनानां हि, धर्मभक्तिप्रणोदकः ॥९९५॥ आगता दुरदेशात्तु, तीर्थयात्राकृते जनाः ।। सहस्रशः सुभव्याच, प्रतिष्ठाया महोत्सवे ॥९९६॥ मानवानां प्रसञ्चारैः. कल्प्यते प्रेक्षकैर्जनैः ।। उच्छलन् कि समायातो, मानवानां महोदधिः ॥९९७।। श्राद्धानां वसतेहीने, तीर्थक्षेत्रे पवित्रिने । तीर्थरक्षासमित्या च, व्यवस्था रुचिरा कुना ॥९९८॥ प्रशंसन्तीति सर्वेऽपि, कीदृग् धर्मप्रभावना । दृश्यतेऽपि कलावस्मिन् , कृतस्य स्मारिका सहो ॥९९९॥ उत्सवमङ्गलारम्भो, भव्यानां प्रीतिकारकः ।। सातो मोदतोऽद्वत: स कैः कैर्न प्रशंसितः ॥१०००॥ वः काष्ठैः सुरम्यैश्च, पताकातोरणादिभिः ।। राजते नगरं नाना, पार्श्वनाथस्य शोभनम् ॥१००१॥ सुशोभना मनोरम्या, जेमनार्थ प्रकल्पिता । चामश्वेताम्बरः श्रेष्ठा, वामानाना च वाटिका ॥१००२।। उद्यानमश्वसेनाख्यं, जैनधर्मिसमाकुलम् । विविधरचनागम्य, शिल्पिभिः परिकल्पितम् ॥१००३॥ त्रिसन्ध्यं च प्रवाद्यन्ते, तूर्यबादनशिक्षितैः । वायानि मधुरैनदिः, श्रोतृकर्णसुधासमैः ॥१०॥४॥