________________
: ९० : विहारेणागतस्यैवं, जलग्रामसमीपके । आगता सम्मुखे लोकाः, मम वन्दनकामुकाः ॥८२५॥ अभिरामं जलग्रामे, वाद्ये नाविधैवरैः ।। बहुभिः श्रावकैः शस्य, स्वागतं शोभनं कृतम् ॥८२६॥ तत्रत्यैः सत्कृता लोकैः, प्रविष्टाश्चैत्यके वयम् । वन्दित्वा तारकान् देवान् , आगता धर्मवेश्मनि ॥८२७॥ जयनादेन तारेण, गर्जत्कृतं जगज्जनः । अक्षतादिशुभद्रव्यैः, मम वर्धापनं कृतम् ॥८२८॥ मया तु धर्मपीयूष-वर्षिभिर्वचनैस्तदा । श्रोतृभ्यो धर्मसज्ज्ञानं, मुदत्तमात्मदर्शकम् ॥२९॥ श्रीसडनानघेनैव, प्रतिष्ठायाः सुलग्नकम् । मङ्गलदं च निर्णीतं, शुभं शस्यं ममोदितम् ॥८३०॥ सम्मिल्य जैनसङ्कन, न्यायद्रव्यं च सश्चितम् । प्रतिष्ठायाः कृते शुद्धं, दानादिधर्मरागतः ॥८३१॥ धर्मप्रसङ्गरङ्गेण, रङ्गितैमण्डषश्च तैः । पताकातोरणे रम्यः, कृतः शोभाभिवर्धकः ॥८३२॥ प्रोत्तुङ्गे जिनचैत्ये तु, पूजां च श्रीजिनेशितुः । तज्ज्ञास्तु पाठयामासुः, गीतज्ञा मधुरै रवैः ॥८३३॥ सातो मङ्गलारम्भः, चाष्टाहिकोत्सवस्य च । जिनागरचनां रुच्या, कुर्वन्ति तत्कलाविदः ॥८३४॥