________________
: ८९ :
॥ ८१५ ॥
मिलिता बहवः श्राद्धाः पार्श्व जन्मदिने वरे । कल्याणकोत्सवे जाताः, तीर्थभक्तिवशंवदाः उत्सवो मोददो जातो, धर्ममण्डनकारकः । कारकोऽस्मिन् कलौ पूर्णः, चतुर्थारिक संस्मृतेः ॥ ८१६॥
॥ ८१८ ॥
,
॥८२० ॥
विहृत्यान्तः समायाता, बालापुरे महापुरे । चैत्यद्वयीसमायुक्ते, वयं तु धर्मदेशकाः बाळापुरेऽपि सञ्जातो, धर्मोत्सवोऽतिशोभनः । श्री चिन्तामणिपार्श्वस्य प्रतिष्ठायाः सुवासरे बालापुरात्सुसंस्थानात्, विहृत्य सह साधुभिः । खामगामे समायाताः सत्कृताः श्रावकैर्वयम् ॥८१९॥ खामगामेऽपि धर्माढ्याः, चक्रुर्धर्मप्रभावनाम् । नित्यं चन्दनबालाया, अष्टमतपसाऽन्विताम् पूजापभावना मुख्यां कुर्वन्ति श्रावकाः क्रियाम् । अस्माकं योगतः श्राद्धा, जैनधर्माभिवृद्धये खानदेशे जलग्रामे, ग्रामे चैत्येन शोभिते । जिनबिम्बप्रतिष्ठाया, धर्मकार्य समस्ति च तत्कृते तत्र वास्तव्या, आगता जैनसज्जनाः । विज्ञप्त्यर्थं प्रमोदेन, धर्मिणो मम सन्निधौं मयका स्वीकृतं कार्य, प्रतिष्ठाया: प्रहर्षतः । खामग्रामाद्व्यहार्ष च, खानदेशं प्रति द्रुतम् ॥८२४॥
॥८२१॥
॥८२२॥
॥८२३ ॥
॥८१७॥