SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ : ८८ : धर्मकृत्यै बभूवात्र, शस्यं शासनशोभनम् । प्रशंसितं विशेषेण, श्रावकैर्गुणरागिभिः ||८०६ ॥ त्रिभिर्विशेषकम् ॥ सिद्धचक्र महापूजा - शान्तिस्नात्रादिकोत्सवः । तपश्चर्यानिमित्तेन कृतः सुभावुकैर्जनैः चमत्कृतिकरी चित्ते, मासक्षपणमुख्यका । तपश्चर्या हि सञ्जाता, सङ्घस्योन्नतिकारिका , 1120011 ||८०८ || तपश्चर्यानुभावेन, मत्प्रेरणाप्रभावतः । धर्मप्रभावनां चक्रुः, श्रावका विविधोत्सवैः ममोपदेशतोऽत्रैव, चाचाम्लादितपः कृते । सञ्चितं भूरिसद्द्रव्यं वदान्यैः श्रावस्तदा ॥ ८१० ॥ ॥८०९ ॥ परिपूर्णा चतुर्मासी, निर्विघ्ना धर्मभाविता । द्वितीयापि सदोद्योता जाता संस्मृतिकारिका ॥ ८११ ॥ कीदृक् पुण्यस्य सम्भारः, चास्माकं जृम्भतेऽधुना । चतुर्मासीद्वयी जाता, जल्पन्ति श्रावका इति ॥ ८१२॥ समाप्तायां चतुर्मास्यां विहृत्यान्तो वयं खलु । समस्तैः साधुभिः सार्धं, तीर्थयात्राकृते मुदा ॥ ८१३ ॥ अन्तरिक्षमहातीर्थे, पार्श्वदर्शनकामुकाः । समायाताः ससत्काराः, पार्श्वकल्याणवासरे ॥ ८१४ ॥
SR No.032034
Book TitleAntariksh Tirth Mahatmya
Original Sutra AuthorN/A
AuthorVijaybhuvantilaksuri, Bhadrankarvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year1965
Total Pages222
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy