________________
: 28:
मदभूमि वियत्पक्ष, - संख्ये वैक्रमवत्सरे । फाल्गुन शुक्ल सप्तम्यां सुलग्नमागतं वरम् अकारि मण्डपो भव्यः, सतोरणध्वजो जनैः । अलङ्कृतः सदाविद्युत्-झलत्कारकरैर्दीपैः आह्वानपत्रिकाद्वाराss - मन्त्रिताः श्रावकास्तदा । आगता दूरदेशात, प्रतिष्ठापक्रमे वरे जेमनानि गृहस्थैश्व, योजितानि सुभावतः । विविधानि वदान्यैश्व स्वधर्मिबन्धुभक्तये
·
॥७६८॥
॥७६९॥
॥७७० ||
॥७७१॥
कृतच मङ्गलारम्भः, चाष्टाहिकमहस्य तु । सादरं जैनसन्न, जैनशासनदीपकः शुभयोगे च निर्णीते, मुहूर्ते मोदमेदुरः । सशिष्यो जिनबिम्बानां, प्रतिष्ठां कृतवानहम् ॥ ७७३ ॥ स्वर्गस्थस्वगुरूणां च प्रतिमा च प्रतिष्ठिता ।
मया श्रीलब्धिसुरीणां, विश्वख्यातिमतां हि वै ॥७७४ || तदा जयारवेणोच्चैः, धर्ममङ्गलकारिणा । जैनैर्गजत्कृतं विश्वं सच्चिदानन्द याचकैः पताकाळङ्कृतं दण्डा - रोपणं विहितं तथा । शिखरे गगनस्पर्शि-न्युच्चैर्धर्माभिमण्डनम्
॥७७२॥
॥७७५॥
॥७७६॥
प्रतिष्ठाया विधानं तु, पवित्रमन्त्रमन्त्रितम् । निर्विघ्नं कारितं सर्व, पूर्णे च विधिवेदिभिः ॥७७७||