________________
देवद्रव्ये शुभा वृद्धिः, तथान्यक्षेत्रकेऽपि च । कारिता श्रावकैर्भावः, चित्ताश्चर्यकरे महे ॥७७८॥ मम व्याख्याक्षणे लोका, मिलिता बहुसङ्ख्यकाः । जैना जैनेतरा नित्यं, आययुः श्रवणेच्छवः ॥७७९॥ आकण्यं जैनधर्म तु, तत्यजुः पापमुल्बणम् ।। जगृहुनियमान् भव्यान, निजात्मशुद्धिहेतवे ॥७८०।। अतो विहृत्य चाहं तु, सत्कृतः श्रावकैस्तदा । जालनाख्ये पुरे श्रेष्ठे, आगतो धर्मवर्धकः ॥७८१॥ कियदिनी स्थिति कृखा, प्रोक्तो धर्मो जिनोदितः । मयका श्रोन्दाग्रे, प्रत्यहं धर्मवेदिना ॥७८२॥ चतुर्मास्याश्च विज्ञप्त्य, श्रावका भक्तिपूरिताः । अत्राकोलाख्यसबृङ्गाद्, आगता भावने रिताः ॥७८३॥ चैत्यं भवति तीर्थेऽस्मिन् , विशालं शिल्पशोभितम् । स्थातव्यमेव तत्पावे, युष्माभि मुनिभिः सह ॥७८४॥ विज्ञप्तं तैश्च सयुक्त्या, भक्तिभावसमन्वितैः । मानितं तन्मया यत्तु, चतुर्मास्यै तथाऽखिलम् ॥७८५।। हर्षेण जयनादेन, वर्धापितं सुभावकैः । आकोलाख्ये पुरे ज्ञाखा, चतुर्मासी सुनिर्णीताम् ॥७८६॥ विहृत्य जालनाद्रङ्गात्, सह सुसाधुभिः शनैः । लोणारे जैनसंख्याके, द्रङ्गे आजग्मिवानहम् ॥७८७॥