________________
शिलिलभिनिपुणैः सर्व. मयोदितं मनस्यरम् । .. धारितं च स्वकार्याय, चैत्याय नूतनाय च ॥७५८॥ अहं व्यहार्षमस्माच, सन्मुहूर्त सशिष्पकः । देवलग्रामरानाख्यं, ग्राम प्रति महामनाः ॥७५९॥ ग्रामानुग्रामतो नित्यं, शनैः शनविहारतः ।। कुर्वन् धर्मोपकारं च, जैननेतरेष्वपि ॥७६०॥ आमिषाहारिणां मांस, मद्यपानां च वारुणीम् । त्याजयश्चोपदेशेन, प्रयुक्त्याऽस्मिस्म शास्त्रतः ॥७६१॥ अनुक्रमविहारेण, चागतमुपदेवलम् ।। मां तदात्ममुसामर्थ्यात् , ज्ञाखा भक्ताश्चमत्वनाः ॥७६२॥ वादिननादतस्तत्र, जैनाजैनजनैर्मुदा । सत्कृतः स्वागतेनैव, प्राविशं नगरं वरम् ॥७६३॥ अजैनजैनलोकानां, शस्तमैक्यं प्रवर्तते । ततः सर्वेषु कार्येषु, सर्व प्रीत्या मिलन्ति च ॥७६४॥ चैत्येषु जिनबिम्बानां, दर्शन वन्दनं तथा । अस्माभिर्विहितं भावात् , स्तोत्रैश्च स्तवनं तदा ॥७६५॥ भव्यानां जिनबिम्बानां, प्रतिष्ठायाः मुलग्नकम् । तीक्ष्णबुद्धया शुभं दृष्ट, ज्योतिर्विद्भिर्विचक्षणः ॥७६६॥ लघुसङ्ख्यावति ग्रामे, यथाशक्ति मुभाक्तः । सश्चितं श्रावकैव्यं, प्रतिष्ठायाः कृते द्रुतम् . ॥७६७॥