________________
तदृष्टं मयका माग-दर्शनं दत्तमेव च । तत उत्तेजितं जातं, चैत्यकार्य विशेषतः ॥७४८॥ मोगलदेशके राजा-देवळगांवसत्पुरे । तत्रास्ति शोभनं चैत्यं, श्रीसड्डेन विनिर्मितम् ॥७४९।। तत्रत्याः श्रावकश्रेष्ठा, अत्र तीर्थ समागताः । विज्ञप्तये ममाग्रे वै, अन्तरिक्षे शुभेरिताः ॥७५०॥ विज्ञप्तिर्विहिता मेऽग्रे, तैस्तत्रागमनाय च । स्वस्तिश्रीदेवलाख्ये हि, प्रतिष्ठायै जिनेशितुः ॥७५१॥ तैरुक्तं मम सानिध्ये, श्रावकाः सन्ति चाल्पकाः । अस्मद् ग्रामे धनहींनाः, तन्मूर्तिस्थापनं कुतः ॥७५२॥ प्राघुर्णका अनेके च, प्रतिष्ठारहिता अपि ।
चैत्ये चिरं स्थिता देवा, अस्माकं सन्ति पूर्वरे ॥७५३॥ तेषां तु जिनबिम्बानां, प्रतिष्ठायाः शुभं विधिम् । कर्तुमिच्छन्ति सर्वेऽपि, श्रावकाश्विरकालत: ॥७५४॥ आगच्छन्तु भवन्तस्तत्, कृपां कृता सशिष्यकाः । श्रीआचार्यपदारूढाः, तत्राऽस्मनगरे द्रुतम् ।.७५५॥ तदस्माभिर्मतं यत्तु, कथितं श्रावकवरैः ।। प्रतिष्ठायाः सुसत्कृत्यं, कारयितुं शुभावहम् ॥७५६॥ तीर्थेऽन्तरिक्षसंस्थाने, नूत्नचैत्यकृते भृशम् । सूचितं चैत्यकार्याय, महाशङ्करशिल्पिने ॥७५७॥