________________
: ८० :
स्वगुरुविरहेणैव, सभा भव्या नियोजिता । तस्यां श्रद्धाञ्जलिर्दत्तः, सूरिभ्यः साधुभिर्मया ॥ ७२९ || गुरोर्जीवनवृत्तान्तं मयोक्तं निखिलं तदा । श्रुत्वा सर्वेऽपि सञ्जाता, मन्त्रनियन्त्रिता इव आगते धर्मसस्काले, पर्युषणा सुपर्वणि । पुलकिताननाः सर्वे, जज्ञिरे श्रावकोत्तमाः आकोळानगरे रम्ये. आबालवृद्धमन्नराः । सु-धर्माराधने रक्ताः, श्रद्धावन्तस्तदाऽभवन् मयका मोदभावेन, प्रेरिता धर्मकर्मणि । संलग्नाः पूर्णभावेन, सद्धर्माद् विमुखा अपि ॥७३३॥ कल्पसूत्रं मया तत्र, व्याख्यातं युक्तिपूर्वकम् | पर्वपुष्टिकरं श्रेष्ठं श्रुतं तदात्मदर्शिभिः
,
मासक्षपण मुख्यानि, तपांसि विविधानि च । विहितानि जनैर्भव्यै, भविनाशालिभिः खलु
॥७३० ॥
॥७३१॥
1198211
॥७३४ ॥
॥७३५॥
"
आचार्य शिष्य सङ्घेऽस्मिन् पञ्चदशदशाष्टकाः । उपवासाः कृताः सद्भिः शिष्यैः सद्भावभावितैः ॥७३६|| दानपुण्यादि सत्कृत्यं, चक्रुः श्राद्धा हितार्थिनः । शासनं दीपयामासु - गुरुवाण्या प्रमोदिनः पर्व पूर्ण तु निर्विघ्नं देवद्रव्यादि - वृद्विकृत् । हर्षुलै: श्रावस्तत्र, कृतं स्वधर्मिजेमनम्
॥७३७॥
॥७३८ ॥